________________
३८
श्रीशान्तिनाथचरित्रे
इतोऽश्वग्रीवभूपेनाश्व बिन्दुर्दृष्टप्रत्ययः ।
पृष्टो नैमित्तिको मृत्युर्मम भावी कुतो 'न्विति ॥ २८ ॥ सोऽवदञ्चण्डवेगं ते यो दूतं धर्षयिष्यति । शालिक्षेत्रापकर्त्तारं हनिष्यति हरिं च यः ॥ ३० ॥
1
स ते हन्तेति श्रुत्वा तं सत्कृत्य व्यसृजन्नृपः 1 पुत्रौ प्रजापतेः क्रूराविति लोकाद्दिवेद च ॥ ३१ ॥ तेनाथ प्रेषितो राज्ञा ययौ दूतोऽखलगतिः । प्रजापतिनृपास्थाने भवत्प्रेक्षण निर्भरे ॥ ३२ ॥ सद्यः प्रेक्षणरङ्गस्य भङ्गं दृष्ट्वा कुमारकौ । त्रिष्टष्ठाचलनामानौ तस्मै चुकुपतुर्भृशम् ॥ ३३ ॥ दूतः सत्कृत्य राज्ञाऽसौ विसृष्टश्चलितश्च सः । त्रिपृष्ठाचलयोरग्रे कथितस्तत्पदातिभिः ॥ ३४ ॥ ताभ्यां गत्वा मुष्टिपाणिप्रहारेण निपीडितः । तद्रङ्गभङ्गाविनयं स्मरयद्भ्यां मुहुर्मुहुः ॥ ३५ ॥ श्रुत्वा प्रजापती राजा सुतयोस्तद्दिचेष्टितम् । तं दूतं चमयामास सच्चक्रे च विशेषतः ॥ ३६ ॥ तद्दृतधर्षणं चारमुखेनाश्खन्नृपोऽशृणोत् । पश्चात् स चण्डवे गोऽपि तत्समीपमुपागतः ॥ ३७ ॥ ज्ञातोदन्तं नृपं ज्ञात्वा सोऽथ तस्मै यथातथम् । आख्याय पुनरप्यूचे देवेदं बालचेष्टितम् ॥ ३८ ॥
(१) च नरात् |