________________
श्रीशान्तिनाथचरित्रे
तस्य पारणके जैनबिम्बमभ्यर्च 'वेश्मगम् । तच्छेषामर्पयामास गत्वा तातस्य सन्निधौ ॥ ८ ॥ शौर्षे शेषां तथोत्सङ्गे पुत्रीमाधाय भूपतिः । तद्रूपवयसी वीक्ष्य चेतस्येवमचिन्तयत् ॥ १० ॥ वरप्रदानयोग्येयं संजाता मम कन्य का। तद्भर्त्ता कोऽनुरूपोऽस्या भविष्यति नभश्चरः ॥ ११ ॥ कुरु पारणकं तावत् पुत्रीत्यु क्त्वा विसृज्य ताम् । आकार्य मन्त्रिणश्चात्मचिन्तितं तदजिज्ञपत् ॥ १२ ॥ उवाच सुश्रुतस्तेषु देवरत्नपुरे वरे । मयूरग्रीवस्तत्पुत्रोऽश्वग्रीवोऽस्ति खगेश्वरः ॥ १३ ॥ भरताईमहोभर्त्ता युक्तः पुत्त्रया वरो हि सः । बहुश्रुतोऽवदच्चैतन्त्र युक्तं प्रतिभाति मे ॥ १४ ॥ यतोऽयं वर्त्तते वृद्धस्तदन्यः कोऽपि रूपवान् । वयःशीलकुलैस्तुल्यो वरः पुत्रयाः करिष्यते ॥ १५ ॥ ततो लब्धावकाशेन प्रोचे सुमतिमन्त्रिणा । यथा देवोत्तरशेण्यां पुरी नाम प्रभङ्गरा १६ ॥ तत्र मेघधनो राजा तद्भार्या मेघमालिनी। पुत्रो विद्यत्प्रभः पुत्री ज्योतिर्माला तयोर्वरा ॥ १७ ॥ योग्यो विद्युत्प्रभः सोऽस्या युमत्पुत्रयाः पतिस्तथा । ज्योतिर्माला कुमारस्य पत्नी भवितुमर्हति ॥ १८ ॥
(१) च वेश्मनि।
(२) ख घ मयूरग्रीवसूरश्वग्रीवोऽस्ति वरखेचरः ।
ग च मयूरग्रीवसूर श्वग्रीवोऽस्ति खेचरेश्वरः ॥