________________
३२
श्रीशान्तिनाथचरित्रे
स श्रोषेणनृपः स्वल्पकषायः स्वच्छमानसः । जिनोक्त्या भावितोऽत्यन्तं क्षमासारः प्रियंवदः ॥ १२ ॥ वैरायमाणौ तावित्यं निरीक्ष्य निजनन्दनौ । निवारयितुमनलम्भूष्णुरेवं विचिन्तयत् ॥ १३ ॥ (युग्मम्) अहो विषयलाम्पय्यं वैचित्रत्र कर्मणामहो । रागद्देषावहो शत्रू अहो मोहविजृम्भितम् ॥ १४ ॥ महाप्राज्ञौ महात्मानौ भूत्वाऽपि मम नन्दनौ । यतावेककामिन्याः कृते विदधतुः कलिम् ॥ १५ ॥ अनयोर्दुश्चरित्रेण लज्जमानः सभान्तरे ।
मुखं नगरमुख्यानां दर्शयिष्याम्यहं कथम् ॥ १६ ॥ तदेतस्यामवस्थायां मरणं शरणं मम ।
I
इत्यभिप्रायमात्मीयं देव्याः कथयति स्म सः ॥ १७ ॥ ततस्ताभ्यां सममसौ स्मृतः पञ्चनमस्कृतिः । विषमि श्रोत्पलाघ्राणप्रयोगेण व्यपद्यत ॥ १८ ॥ सत्यभामाऽपि तेनैव विधिना जीवितं जहौ । विभ्यती कपिलस्यास्य दुष्टशीलस्य सङ्गमात् ॥ १८ ॥
जम्बूद्दीपविदेहस्यान्तर्वत्युत्तरसंज्ञिते ।
कुरुक्षेत्रे ऽभवञ्ज्ञ्जीवास्ते चत्वारोऽपि युग्मिनः ॥ २० ॥ श्रीपेरणाद्य प्रियाजीवावाद्यं मिथुनकं तथा । द्वितीयं मिथुनं सिंहनन्दितासत्यभामयोः ॥ २१ ॥ इतस्तयोरिन्दु विन्दुषेणयोर्युद्यमानयोः ।
एकस्तत्र कुतोऽप्येत्य चारणर्षिरदोऽवदत् ॥ २२ ॥