________________
२६
श्री शान्तिनाथचरित्रे
ततो वस्त्राणि सर्वेभ्यो यथायुक्तमदत्त सा ।
तस्मै निजाङ्गलग्नं च वासोयुग्मं मनोहरम् ॥ ४८ ॥
उवाच च कलाचार्यमेतन्मध्यात् त्वदान्नया ।
यो जानाति स आख्यातु च्छात्रो मम कथानकम् ॥ ४८ ॥ सरपोया छात्रेर्निर्दिष्टः सोऽथ मङ्गलः ।
उपाध्यायगिरा धीमान् वक्तुमेवं प्रचक्रमे ॥ ५० ॥ चरितं कल्पितं किं वा कथयामि कथानकम् । साऽवदचरितं ब्रूहि, पर्याप्तं कल्पितेन भोः ॥ ५१ ॥ मङ्गलश्चिन्तयामास सैषा त्रैलोक्यसुन्दरी ।
चम्पापुर्यां भाटकेन परिणीता हि या मया ॥ ५२ ॥ केनापि हेतुनेहागात् भूत्वा पुंवेषधारिणी ।
भवत्वेवं कथां तावत् कथयामि निजामहम् ॥ ५३ ॥ जगाद च कथा लोकप्रिया चित्रकरी भवेत् । सा च वृत्ता मदीयेऽङ्गे तामाख्यामि निशम्यताम् ॥ ५४ ॥ ततश्वात्मकथा तेनादितस्तत्र प्रकाशिता । तावद्यावदमात्येन गृहानिर्वासितोऽस्माहम् ॥ ५५ ॥ अत्रान्तरे कृतालोककोपा राजसुताऽवदत् ।
अमुं गृह्णीत गृहीत रे रे मिथ्याभिभाषिणम् ॥ ५६ ॥ इत्युक्ते पत्तयस्तस्यास्तद्ब्रहार्थं समुद्यताः । तयैव वारिताः शीघ्रं स चानोतो गृहान्तरे ॥ ५७ ॥ अथेनमासनेऽध्यास्य सिंहमूचे नृपात्मजा ।
अयि येनाहमूढाऽस्मि स एवायं प्रियो मम ॥ ५८ ॥