________________
२४
श्रीशान्तिनाथचरित्रे
भूयो राजाऽब्रवीत् सिंहं किमिदं वक्त्यसौ वचः । सोऽवदद्देव युक्त हि क्रमोऽस्ति यदयं किल ॥ २८ ॥ राज्ञां गृहेषु चेत्पुत्री गुरुकार्येण केनचित् । पुंवेषं याचते तस्यै दातव्यः स न संशयः ॥ ३० ॥ ततस्तदनुमत्याऽस्यै पुंवेषं पार्थिवो ददौ । आदिदेश च तं सिंहं तद्रचार्थं बलान्वितम् ॥ ३१ ॥ अभ्यधात्सुन्दरी भूयस्ताताज्ञा चेद्भवेत्तव । उज्जयिन्यां ततो यामि कारणेन गरीयसा ॥ ३२ ॥ कारणं कथयिष्यामि तज्जाते च समीहिते । अधुना कथिते तस्मिन् परिणामो न शोभनः ॥ ३३ ॥ हे पुत्रि' मम वंशस्य यथा नाभ्येति दूषणम् । तथा कार्य्यं त्वयेत्युक्ता विसृष्टा सा महीभुजा ॥ ३४ ॥ ततश्च सिंहसामन्तभूरि सैन्यसमन्विता । अखण्डितप्रयाणैः सा ययावुज्जयिनीं पुरोम् ॥ ३५ ॥ वैरिसिंहो नृपोऽथैवं शुश्राव जनतामुखात् ।
यच्चम्पाया: समागच्छन्नस्त्यत्र नृपनन्दनः ॥ ३६ ॥ अभियानादिसन्मानखागतप्रश्र पूर्वकम् । पुरे प्रवेश्य तेनासावानोतो निजमन्दिरे ॥ ३७ ॥ पृष्टा चागमनार्थं सा प्रोवाच नगरीमिमाम् । द्रष्टुमाश्चर्यसंपूर्णामागतोऽस्मि वुतूहलात् ॥ ३८ ॥
(१) ग ङ छ पुत्रिके ।