________________
२२
श्रीशान्तिनाथचरित्रे
तथापि व्यवहारोऽयं यो हेतुः सुखदुःखयोः ।
स एव क्रियते लोके' भाजनं गुणदोषयोः ॥ ८ ॥ ( युग्मम्) स्वकम्मैपरिणामेन जज्ञे पुत्रोऽस्य कुष्ठिकः । जाता च तन्निमित्तत्वात्पुत्त्री मे दोषभाजनम् ॥ १० ॥ ऊचे च सचिवोऽनर्थमकार्षमहमोदृशम् । नादास्यं चेत्सुतां कुष्ठी नाभविष्यत्सुतोऽपि ते ॥ ११ ॥ अमात्योऽप्यब्रवीत् स्वामिन् हितकार्यं प्रकुर्वताम् । को दोषो भवतामत्र दोषो मत्कर्मणां पुनः ॥ १२ ॥ अथोत्थाय ययौ मन्त्री सा तु त्रैलोक्यसुन्दरी । इष्टाऽप्यनिष्टा संजाता राज्ञः परिजनस्य च ॥ १३ ॥ न कोऽप्येनामाललाप नाभ्यनन्दत् दृशाऽपि हि । एकत्र गुप्तगेहेऽस्थात् सा मातृगृहपृष्ठतः ॥ १४ ॥ अचिन्तयच्च दुष्कर्म किं मया विहितं पुरा । येन कापि ययौ नंष्ट्वा परिणीतः स मे पतिः ॥ १५ ॥ अन्यच्च लोकमध्येऽदः कलङ्कं समुपस्थितम् । किं करोमि क्व गच्छामि व्यसने पतिताऽस्मि हा ॥ १६ ॥ एवं चिन्तां प्रकुर्वन्त्यास्तस्याश्चित्ते स्थितं तदा । भवितोज्जयिनोपुय्यां प्राप्तो नूनं स मे पतिः ॥ १७ ॥ तदा च मोदकांस्तेन भुक्ता संजल्पितं किल ।
एते हि मोदका रम्याः किं त्ववन्त्या जलोचिताः ॥ १८ ॥
(१)
घ ङ लोकैः ।
(२) ग ङ साऽनु ।