________________
श्रीशान्तिनाथचरित्रे
ओमिति भणिते तेन दासीहस्तेन मोदकान् । आनाय्य स्वग्रहात्तस्मै ददौ त्रैलोक्य सुन्दरी ॥ ६८ ॥ भुक्तेषु तेषु पानीयं पिबता तेन भाषितम् । अहो रम्यतरा एते मोदकाः सिंहकेसराः ॥ ६ ॥ उज्जयिन्या नगर्याश्चेन्नौरमास्वाद्यतेऽमलम् । तदा टप्तिर्भवेन्नं मोदकेष्वशितष्वपि ॥ ७० ॥ तच्छ्रुत्वा राजपुत्री सा दध्यावाकुलचेतसा । अहो अघटमानं किं वाक्यमेष प्रजल्पति ॥ ७१ ॥ माटगेहमथावत्यामार्य पुत्रस्य भावि वा । तदसौ दृष्टपूर्वत्वाज्जानात्यस्याः स्वरूपताम् ॥ ७२ ॥ ततश्च निजहस्तेन मुखपाटवकारणम् । पञ्चसौगन्धिकं तस्मै ताम्बूलं दत्तवत्य सौ ॥ ७३ ॥ सन्ध्याकाले पुनमन्त्रिमानुषैः प्रेषितोऽथ सः । त्रैलोक्य सुन्दरीमेवमूचे मतिमतां वरः ॥ ७४ ॥ गमिष्यामि पुनर्देहचिन्तायामुदरातिभाक् । त्वया क्षणान्तरेणागन्तव्यमादाय पुष्करम् ॥ ७५ ॥ निरगाच्च ततो मन्त्रिमन्दिरात्पुरुषांश्च तान् । पप्रच्छ राजदत्तं भोः क्वास्ति तहस्तु मामकम् ॥ १६ ॥ तैश्च तद्दर्शितं सर्वमुज्जयिन्याः पथि स्थितम् । तत: सारतरं वस्तु निक्षिप्यकरथे वरे ॥ ७७ । तस्मिंश्च योजयित्वाऽखांश्चतुरः पृष्ठतस्तथा । वध्वैकं शेषकं वस्तु मुक्त्वा तत्रैव सोऽचलत् ॥७८॥ (युग्मम्)