________________
प्रथमः प्रस्तावः ।
तत्र नैषधिको मुख्यान् यथास्थानं दशत्रिकान् । ख्यापयन् परया भक्त्या विदधे चैत्यवन्दनाम् ॥ ७७ ॥ ततः साधूनमस्कृत्य प्रत्याख्यानं विधाय च । अतिथीनां संविभागं चकार च महामतिः ॥ ७८ ॥ अन्यदप्यखिलं धम्मकर्म शर्मनिबन्धनम् । आङ्गिकं रात्रिकं चैव धनदत्तो व्यधात्म धीः ॥ ७ ॥ अथ धम्मप्रभावन तुष्टा शासनदेवता । ददौ तस्मै पुत्रवरं प्रत्यक्षीभूय साऽन्यदा ॥ ८० ॥ पुत्त्रे गर्भागते रात्रिशेषे श्रेष्ठिन्यदक्षत । खग्ने हेममयं पूर्ण कलशं मङ्गलावृतम् ॥ ८१ ॥ जातश्च समये पुत्रस्ततः कृत्वोत्सवं गुरुम् । तस्मै मङ्गलकलश इत्याख्यां तत्पिता ददौ ॥ ८२ ॥ कलाभ्यासपरः सोऽथाष्टवर्षप्रमितोऽन्यदा।। तात त्वं कुत्र यासीति पप्रच्छ पितरं निजम् ॥ ८३ ॥ सोऽवदवत्स गत्वाहमाराम प्रतिवासरम् । ततः पुष्पाणि चानीय करोमि जिनपूजनम् ॥ ८४ ॥ ययो पित्रा सहान्येास्तत्र सोऽपि कुतूहली। आरामिकोऽवदत्कोऽयं बालो नेत्र विशालकः ॥ ८५ ॥ ज्ञात्वा च श्रेष्ठिपुत्रं तं तस्मै सोऽपि ददो मुदा । नारङ्गकरुणादीनि सुस्वादूनि फलान्य लम् ॥ ८६ ॥
(१) क फलान्यपि।