________________
योगशास्त्रम्
योगगर्म स्तुतिः
॥३८॥
॥६६॥ अदर्शि सोमयशसा राजैको बहुभिः परैः । रुद्धः समन्ताच्छ्रेयांससाहाय्याज्जयमीयिवान् ॥६७॥ त्रयस्ते सदसि स्वप्नानन्योऽन्यस्य न्यवीविदन् । ते निर्णयमजानन्तः स्वं स्वं स्थानं पुनर्ययुः ॥६८॥ प्रादुर्भावयितुमिव तदा तत्स्वप्मनिर्णयम् । श्रेयांसस्य ययौ वेश्म भिक्षार्थी भगवानपि ॥६९॥ भगवन्तं समायान्तं शशाङ्कमिव सागरः । आलोक्य श्रेयसां पात्रं श्रेयांसः शिश्रिये मुदम् ॥७०॥ ऊहापोहं वितन्वानः श्रेयांसः स्वामिदर्शनात् । अवाप जातिस्मरणं पूर्वनष्टनिधानवत् ॥७१॥ चक्रभृद्वज्रनाभोऽसौ प्राग्भवेऽस्यास्मि सारथिः । अनुप्रवजितश्चामुं तदेत्यादि विवेद सः ॥७२॥ ततो विज्ञातनिर्दोषभिक्षादानविधिः सुधीः । स्वामिने प्रासुकायातेक्षुरसं मुदितो ददौ ॥७३॥ भूयानपि रसः पाणिपात्रे भगवतो ममौ । श्रेयांसस्य तु हृदये ममुर्नहि मुदस्तदा ॥७४॥ स्त्यानोऽनुस्तम्भितोऽन्वासीद् व्योम्नि लग्नशिखो रसः। अब्जलौ स्वामिनोऽचिन्त्यप्रभावाः प्रभवः खलु ॥७५॥ ततो भगवता तेन रसेनाकारि पारणम् । सुरासुरनृणां नेरैः पुरस्तद्दर्शनामृतैः ॥७६॥ कुर्वद्भिर्दुन्दुभिध्वानं देवैर्दिवि घनैरिव । वृष्टयो रत्नपुष्पाणां चक्रिरे वारिवृष्टिवत् ॥७७।। अथ तक्षशिलां स्वामी ययौ बाहुबलेः पुरीम् । बाह्योद्याने प्रपेदे च प्रतिमामेकरात्रिकीम् ॥७८॥ प्रभाते पावयिष्यामि स्वं लोकं स्वामिदर्शनात् । इतीच्छतो बाहुबलेः सामुन्मासोपमा निशा ॥७९॥ स प्रातः प्रययौ यावत्तावत्स्वाम्यन्यतोऽगमत् । तच्चास्वामिकमुद्यानं व्योमेवाचन्द्रमैक्षत ॥८॥ मनोरथो विलीनो मे हृदि बीजमिवोषरे । हा धिक प्रमद्वरोऽस्मीति बहात्मानं निनिन्द सः ॥८१॥ यत्रास्थातां प्रभोः पादौ रत्नस्तत्रार्षभिर्व्यधात् । धर्मरकं सहस्रारं सहखांशुमिवापरम् ॥८२॥ विवधाभिग्रहः स्वामी म्लेच्छदेशेष्वधर्मसु । विजहार यथार्येषु समभावा हि योगिनः ॥८३॥
॥३८॥