________________
योगशाखम्।
पञ्चमः प्रकाशः।
॥१७॥
| रविः षष्ठः तृतीयो वा शशी च दशमस्थितः । यदा भवति मृत्युः स्यात्ततीये दिवसे तदा ॥२०४॥ पापग्रहाश्चदुदयात्तुर्ये वा द्वादशेऽथवा । दिशन्ति तद्विदो मृत्यु तृतीये दिवसे तदा ॥२०५॥ ___ स्पष्टौ ॥२०४-२०५॥ तथाउदये पञ्चमे वापि यदि पापग्रहा भवेत् । अष्टभिर्दशभिर्वा स्यादिवसः पञ्चता तदा॥२०६॥
स्पष्टः ॥२०६॥ तथाधनुमिथुनयोः सप्तमयोर्यद्यशुभा ग्रहाः। तदा व्याधिम॒तिर्वा स्याज्ज्योतिषामिति निर्णयः॥२०७॥ ____ स्पष्टः ॥२०७॥ यन्त्रद्वारेण कालज्ञानमष्टभिः श्लोकैराह
अन्तस्थाधिकृतप्राणिनामप्रणवगर्भितम् । कोणस्थरेफमाग्नेयपुरं ज्वालाशताकुलम् ॥२०॥ सानुस्वारैरकाराद्यैः षट्स्वरैः पार्श्वतो वृतम् । स्वस्तिकाङ्कवहिःकोंणस्वाक्षरोन्तःप्रतिष्ठितम् २०९॥ चतुःपावस्थगुरुयं यन्त्रं वायुपुरावृतम् । कल्पयित्वा परिन्यस्येत् पादहच्छीर्षसन्धिषु ॥२१०॥ सूर्योदयक्षणे सूर्यं पृष्ठे कृत्वा ततः सुधीः। स्वपरायुर्विनिश्चेतु निजच्छायां विलोकयेत्॥२११॥ पूर्णा छायां यदीक्षेत तदा वर्षे न पञ्चता । कर्णाभावे तु पञ्चत्वं वर्षे दशभिर्भवेत् ॥२१२॥
॥७२७॥