________________
योगशाखम्।
पञ्चमा प्रकाशन
11७०७
स्पष्टः । नवरमत्रेति कालज्ञानप्रस्तावे ॥१३४॥
कालज्ञाने उपायान्तराण्याह-- क्षुतविण्मेदमूत्राणि भवन्ति युगपद्यदि । मासे तत्र तिथौ ता वर्षान्ते मरणं तदा॥१३५॥
क्षुतं क्षवः, विद विष्टा मेदो रेतः, मूत्रं प्रखावः, एतानि यदि युगपद्भवेयुस्तदा वर्षान्ते तत्रैव मासे तत्रैव दिने मृत्युः स्यात् ॥१३५॥ तथा-- रोहिणी शशभृल्लंक्ष्म महापथमरुन्धतीम् । ध्रुवं च न यदा पश्येद्वर्षेण स्यात्तदा मृतिः।।१३६॥
रोहिणी नक्षत्रविशेष, शशभृतो लक्ष्म लाञ्छनं महापथं छायापथं, अरुन्धती वशिष्ठभार्या, ध्रुवमौत्तानपादि, यदैक युगपद्वा पटुदृष्टिन पश्येत्तदा वर्षेण मृत्युः । लौकिका अप्याहु:
अरुन्धतीं ध्रुवं चैव विष्णोस्त्रीणि पदानि च । क्षीणायुषो न पश्यन्ति चतुर्थ मातृमण्डलम् ॥१॥
अरुन्धती भवेज्जिहा ध्रुवो नासाग्रमुच्यते । तारा० विष्णुपदं प्रोक्तं ध्रुवौ स्यान्मातृमण्डलम् ॥२॥१३६।। स्वप्ने स्वं भक्ष्यमाणं श्वगृध्रकाकनिशाचरैः। उह्यमानं खरोष्ट्राधैर्यदा पश्येत्तदो मृतिः॥१३७॥
स्वमात्मानं श्वगृध्रकाकनिशाचरैर्भक्ष्यमाणं, उपलक्षणात् कृष्यमाणमपि, खरोष्ट्राद्यैः आदिशब्दात् श्ववराहादिभिश्चोह्यमान, उपलक्षणात् कृष्यमाणं, यदा स्वप्ने पश्येत्तदा वर्षान्ते मृत्युः । वर्षेणेत्यनुवर्तते ॥१३७॥ तथा
•"भ्रूमध्ये विष्णुपदं ज्ञेयं तारिका मातृमण्डलम् ॥” इति प्रत्यन्तरम् ॥
11901911