________________
योग
शास्त्रम्
।।६५०॥
पावा य चंडकम्मा अणारिया निग्विणा निरणुतावा | धम्मो त्ति अक्खराई सुविणे वि न नञ्जए ताण ||४|| तथाsन्तरद्वीपजा अपि म्लेच्छाः । अन्तरद्वीपाश्च षट्पञ्चाशत् । तद्यथा - हिमवतः प्राग्भागे पश्चाद्भागे च विदिक्षु पूर्वोत्तरादिकासु चतसृषु त्रीणि योजनशतानि लवणजलधिमवगाह्य पूर्वोत्तरस्यां दिशि योजनशतत्रयायामविष्कम्भः प्रथमोऽन्तरद्वीपः एकोरुकाभिधानः स्थितः, स चैकोरुक पुरुषाणामधिवासः द्वीपनामतश्च पुरुषनामानि पुरुषास्तु सर्वाङ्गोपाङ्गसुन्दरा नैकोरुका एव, एवं शेषा अपि । दक्षिणपूर्वस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भ आभाषिक पुरुषाधिवासः प्रथम आभाषिकोऽन्तरद्वीपः । तथा दक्षिणापरस्यां त्रीणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भो लाङ्गूलिकमनुष्यावासो लाङगुलकाभिधानः प्रथमोऽन्तरद्वीपः । तथोत्तरापरस्यां त्रिणि योजनशतानि लवणजलधिमवगाह्य योजनत्रिशतायामविष्कम्भो वैषाणिक मनुष्यावासो वैशाणिकाभिधानः प्रथमोऽन्तरद्वीपः ॥
ततश्चत्वारि योजनशतान्यवगाह्य चतुर्योजनशतायामविष्कम्भा एवमेव हयकर्णानां गजकर्णानां गोकर्णानां शष्कुलिकर्णानां चत्वारोऽन्तरद्वीपाः । ततः पञ्च योजनशतान्यवगाह्य पञ्च योजनशतायामविष्कम्भा आदर्शमुखानां मेषमुखानां हयमुखानां गजमुखानामन्तरद्वीपाः । ततः षड् योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्वमुखानां हस्तिमुखानां सिंहमुखानां व्याघ्रमुखाणामन्तरद्वीपाः ॥ ततः सप्त योजनशतान्यवगाह्य तावदायामविष्कम्भा अश्व - (१) पापाश्च चण्डकर्माणोऽनार्या निर्घृणा निरनुतापाः । धर्म इत्यक्षराणि स्वप्नेऽपि न ज्ञायन्ते तेषाम् ||४||
चतुर्थ प्रकाशः
॥६५०॥