________________
योगशास्त्रम्
॥६२७॥
RECE
जन्तुरिति गम्यते, न मजेद् ब्रुडेद् भवसमुद्रे ॥९२॥
स्वाख्यातं धर्ममाह -
संयम सूनृत शौचं ब्रह्माकिञ्चनता तपः । क्षान्तिर्मदंमृजुता मुक्तिश्च दशधा स तु ॥ ९३ ॥ स तु धर्मो दशधा दशप्रकारः । तत्र संयमः प्राणिदया सप्तदशविधः । तत्र पृथिव्यप्तेजोवायुवनस्पतिद्वित्रिचतुष्पचेन्द्रियाणां मनोवाक्कायकर्मभिः करणकारणनुमतिभिश्च संरम्भसमारम्भारम्भवर्जनमिति नवधा । अजीवरूपाण्यपि पुस्तकादीनि दुःपमादोषात् प्रज्ञाबलहीनशिष्यानुग्रहार्थे यतनया प्रतिलेखनाप्रमार्जनापूर्वे धारयतोऽ जीवसंयमः । तथा प्रेक्ष्य चक्षुषा दृष्ट्वा स्थण्डिलं बीजजन्तुहरितादिरहितं तत्र शयनासनादीनि कुर्वीतेति प्रेक्षा संयमः । गृहस्थान् सावद्याव्यापारप्रसक्तानव्यापारणेनोपेक्षमाणस्योपेक्षासंयमः । प्रेक्षितेऽपि स्थण्डिले रजोहरणादिना प्रमृज्य शयनासनादीन् कुर्वतः स्थण्डिलाच्च स्थण्डिलं संक्रामतः सचिचाचित्तामिश्रासु पृथिवीषु रजोऽवगु ण्ठितौ चरणौ प्रमार्ण्य गच्छतो वा प्रमार्जनासंयमः । भक्तपानादिकमनेषणीयं वस्त्रपात्रादिकं चानुपकारकं संसक्तं वा निर्जन्तु स्थण्डिले परिष्ठापयतः परिष्ठापनासंयमः । मनसोऽभिद्रोहाभिमानेर्ष्यादिभ्यो निवृत्तिर्धमध्यानादिषु च प्रवृत्तिर्मनः संयमः । वाचो हिंखपरुषादिवचोभ्यो निवृत्तिः शुभभाषायां च प्रवृत्तिर्वीक् संयमः । कायस्य धावनवलगनादिभ्यो निवृत्तिः शुभक्रियासु च प्रवृत्तिः कायसंयम इति । एवं सप्तदशप्रकारः प्राणातिपातनिवृत्तिरूपः संयमः, यदाहुः—
04 OF 4 O
चतुर्थ
प्रकाशः
||દ્દા