________________
योगशास्त्रम्
॥४९॥
ततश्च निन्दाद्वारेणाशुभयोगनिवृत्तिरूपमतीतविषयं प्रतिक्रमणम्, प्रत्युत्पन्नविषयमपि संवरद्वारेण अनागतमपि प्रत्याख्यानद्वारेणेति न कश्चिद् दोषः । तच्च दैवसिकादिभेदात् पञ्चधा -- दिवसस्यान्ते दैवसिकम्, रात्रे - रन्ते रात्रिकम्, पक्षस्यान्ते पाक्षिकम्, चतुर्णा मासानामन्ते चातुर्मासिकम्, संवत्सरस्यान्ते सांवत्सरिकम् । पुनद्वेधा -- ध्रुवम्, अध्रुवं च । ध्रुवं भरतैरावतेषु प्रथमचरमतीर्थकरतीर्थेषु अपराधो भवतु वा मा वा, उभयकाल प्रतिक्रमणम् । अध्रुवं मध्यमतीर्थकरतीर्थेषु विदेहेषु च कारणजाते प्रतिक्रमणम्, यदाह
किमणो धम्मो पुरिमस्स य पच्छिमस्य य जिणस्स । मज्झिमयाण जिणाणं कारणजाए पडिकमणं ॥ १ ॥ प्रतिक्रमणविधिश्चैताभ्यो गाथाभ्योऽवसेयः, -
पञ्च विहायारविमुद्धिहेउमिह साहू सावगो वावि । पडिकमण सह गुरुणा गुरुविरहे कुणई इको वि ॥ १ ॥ दि चेआई दाउचउराइए खमासमणे । भूनिहिअसिरो सलाइयारमिच्छोकडं देइ ॥ २ ॥ सामाइअपुब्वमिच्छामि ठाउं काउस्सग्गमिच्चाई । सुतं भणिअ पलंबिअभुयकुप्परधरियपहिरणओ ॥ ३ ॥ (१) प्रतिक्रमणो धर्मः प्रथमस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां कारणे जाते प्रतिक्रमणम् ॥ १॥ (२) पञ्चविधाचारविशुद्धिहेतोरिह साधुः श्रावको वापि । प्रतिक्रमण सह गुरुणा गुरुविरहे करोत्येकोऽपि ॥ १ ॥ वन्दित्वा चैत्यानि दत्त्वा चतुरादिकान् क्षमाश्रमणान् । भूनिहितशिराः सकलातिचार मिध्यादुष्कृतं दद्यात् ॥२॥ सामायिक पूर्वमिच्छा मे स्थापयितुं कायोत्सर्गमित्यादि । सूत्रं भणित्वा प्रलम्बितभुजकूर्परधृतपरिधानः ॥३॥
तृतीय प्रकाशः
४९०॥