________________
॥ श्री भक्तामरस्तोत्रम् ॥
अथ दावानलभयहरं जिनं स्तौति - कल्पान्तेत्यादि
व्याख्या - हे कर्मक्षयैकक्षयकृशानो ! त्वन्नामकीर्तनजलं-त्वदभिधानस्तवननीरं, तव नाम त्वन्नाम 'तत्पुरुषः ', त्वन्नाम्नः कीर्तनं त्वन्नामकीर्तनं 'तत्पुरुषः ', त्वन्नामकीर्तनमेव जलं त्वन्नामकीर्तनजलं 'कर्मधारयः', 'अशेषं' न विद्यते शेषो यत्र सोऽशेषस्तं 'बहुव्रीहिः विद्युत्पातादिभेदात् सकलं दावानलं-वनवह्निम्, दावश्चासावनलश्च दावानलस्तं 'कर्मधारयः' शमयति-विध्यापयति । किंभूतं दावानलम् ? 'कल्पान्तकालपवनोद्धतवह्निकल्पं' कल्पान्तकालपवनेन - युगान्तसमयवातेन उद्धतः - उत्कटो यो वह्निः - अग्निस्तेन कल्पं - सदृशम् । कल्पस्यान्तः कल्पान्तः ‘तत्पुरुषः’, कल्पान्तश्चासौ कालश्च कल्पान्तकाल: 'कर्मधारयः',
कल्पान्तकालपवन:
कल्पान्तकालपवनोद्धतः
,
कल्पान्तकालस्य पवन: 'तत्पुरुषः ' कल्पान्तकालपवनेनोद्धतः 'तत्पुरुष:', कल्पान्तकालपवनोद्धतश्चासौ वह्निश्च कल्पान्तकालपवनोद्धतवह्निः 'कर्मधारयः’, कल्पान्तकालपवनोद्धतवह्निना कल्पः तं ' तत्पुरुषः । पुनः किंभूतं दावानलम् ? 'ज्वलितं' प्रदीप्तम् । पुनः किंविशिष्टम् ? 'उज्ज्वलं’ रक्तम्। पुनं किंलक्षणं दावानलम् ? 'उत्स्फुलिङ्गम्' उल्लसद्वह्निकणम्। उद्- ऊर्ध्वं स्फुलिङ्गा यस्य स उत्स्फुलिङ्गस्तं 'बहुव्रीहिः' । दावानलं किं कुर्वन्तम्? ‘सन्मुखमापतन्तम्' अभिमुखमागच्छन्तम्। इवोत्प्रेक्षते। विश्वंजगत् जिघत्सुं - जिग्रसिषुमिव 'घसृ (स्लृ ) अदने' (पा. धा. ७१५) इति धातुः, अशेषं - सामान्येन सर्वदिग्व्यापकं वा । त्वन्नामस्मरणं दावानलं स्फेटयति। इति षट्त्रिंशत्तमवृत्तार्थः ॥ ३६ ॥
***
अथ भुजङ्गमभयं दलयन्नाह - रक्तेक्षणमित्यादि
-
>
व्याख्या हे नागपतिसेव्य ! यस्य पुंसः - पुरुषस्य हृदि-चित्ते
९७