________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
मा
स्तं-नन्दनं न प्रसूता- नाजीजनत्। त्वां पुत्रं मरुदेवैव प्रसूता। अत्रोपमामाह-सर्वा दिशो-निखिलाः काष्ठाः, सर्वाश्च ता दिशश्च सर्वादिशः 'कर्मधारयः', सर्वा इति पृथक् पदं वा, भानि-नक्षत्राणि दधति-धारयन्ति। प्राच्येव दिग-पूर्वैवाशा सहस्ररश्मि - सूर्य, सहस्रं रश्मयो यस्य स सहस्ररश्मिस्तं 'बहुव्रीहिः' जनयति-प्रसूते। जनिं करोतीति जनयति नामधातुः। सहस्ररश्मि कथंभूतम्? 'स्फुरदंशुजालं' चञ्चत्करकलापम्। स्फुरन्तश्च ते अंशवश्च स्फुरदंशवः ‘कर्मधारयः', स्फुरदंशूनां जालं यत्र स स्फुरदंशुजालस्तं ‘बहुव्रीहिः'। यथा ऐन्द्री दिक् सूरोदये हेतुः, तथा त्वज्जन्मनि मरुदेवी जननी हेतुः। इति द्वाविंशतितमवृत्तार्थः ।।२२।।
* * * अथ भगवतः परमपुंस्त्वेन स्तुतिमाह- त्वामामनन्तीत्यादि ___ व्याख्या - 'हे मुनीन्द्र !' मुनीनामिन्द्रो मुनीन्द्रस्तस्य सम्बोधनं “तत्पुरुषः'। मुनयो - ज्ञानिनस्त्वां परमं पुमांसमामनन्ति-भणन्ति। त्वां किंभूतम्? 'अमलं' सकलद्वेषमलरहितम्। न विद्यते मलो यत्र सोऽमलस्तं “बहुव्रीहिः'। त्वां किंभूतम्? 'आदित्यवर्णम्'। आदित्यवद् वर्णो यस्य स आदित्यवर्णस्तं 'बहुव्रीहिः'। कथम्? 'पुरस्तात्' अग्रे। कस्य? 'तमसः' दुरितस्य अन्धकारस्य वा। त्वां-भवन्तं सम्यगुपलभ्य-प्राप्य मुनयो मृत्युं कृतान्तभयं जयन्ति-स्फेटयन्ति। अन्यच्च शिवपदस्यमोक्षस्थानस्य, शिवस्य पदं शिवपदं तस्य “तत्पुरुषः', अन्यःत्वत्तोऽपरः शिवः- प्रशस्तो निरुपद्रवो वा मार्गो नास्ति। मुक्तिकारणं त्वमेव, अतः श्रयणीयः। इति त्रयोविंशतितमवृत्तार्थः ।।२३॥
* * * अथ सर्वदेवतामयं भगवन्तं स्तौति- त्वामव्ययमित्यादि व्याख्या - हे सर्वदर्शिन् ! सन्तो - विचक्षणास्त्वामेवंविधं प्रवदन्ति
ना ८६ |