________________
॥श्री मानतुङ्गसूरिविरचितम् ॥
-
सम्पूर्णमण्डलशशाङ्ककलाकलापशुभ्राः 'तत्पुरुषः'। विश्वव्याप्तौ हेतुं दर्शयति-ये गुणा एकम्-अद्वितीयं नाथं संश्रिता-आश्रिताः। कः पुरुषो यथेष्टं-स्वेच्छया, इष्टमनतिक्रम्य यथेष्टम् 'अव्ययीभावः', सञ्चरतःपरिभ्रमतस्तान् गुणान् निवारयति-निषेधयति? अपि तु न कश्चित्। त्रिजगदपि भवनणग्रहणतत्परं दृश्यते, तथा च समर्थे प्रभौ सेवाश्रितानां सर्वत्रास्खलितप्रचारो युक्त एव। इति चतुर्दशमवृत्तार्थः ।।१४।।
अथ भगवद्वीतरागतामाह -चित्रमित्यादि
व्याख्या - हे सकलविकारन्यक्कारपर ! यदि ते - तव मनःअन्तःकरणं मनागपि - अल्पमात्रमपि त्रिदशाङ्गनाभिः-देवीभिः, त्रिदशानामङ्गनास्त्रिदशाङ्गनास्ताभिः 'तत्पुरुषः', विकारमार्ग-कामोत्पथं, विकारस्य मार्गो विकारमार्गस्तं 'तत्पुरुषः', न नीतं -न प्रापितम्। द्विकर्मकोऽयं धातुः। ‘अत्र' अस्मिन्नर्थे। “किं चित्रं' किमाश्चर्यम्? अपि तु न किमपि। अत्र दृष्टान्तमाह-कदाचित्-कस्मिंश्चित् क्षणे चलिताचलेन-कम्पितान्यपर्वतेन, चलिता अचला येन स चलिताचलस्तेन 'बहुव्रीहिः', कल्पान्तकालमरुता-प्रलयसमयपवनेन, कल्पस्यान्तः कल्पान्तः 'तत्पुरुषः', कल्पान्तश्चासौ कालश्च कल्पान्तकालः 'कर्मधारयः', कल्पान्तकालस्य मरुत् कल्पान्तकालमरुत् तेन 'तत्पुरुषः', कर्तृभूतेन मन्दरादिशिखरं-मेरुश्रृङ्ग, मन्दरश्चासावद्रिश्च मन्दराद्रिः ‘कर्मधारयः', मन्दराद्रेः शिखरं मन्दराद्रिशिखरं 'तत्पुरुषः' कर्मपदं किं चलितं-स्वस्थानात् किं धूतम्? अपि तु न। यथा युगान्ते सर्वपर्वतानां क्षोभो भवति न तु मेरोः, तथा देवीभिरिन्द्रचन्द्रगोपीन्द्ररुद्रादयो देवाः क्षोभिताः, न जिनेन्द्रः। इति पञ्चदशमवृत्तार्थः ।।१५ ॥
ना ८०
न्तिका