________________
७२४
तृतीये काण्डेकतानिबन्धनमस्यास्ति । न चानुमानस्य तुल्यबलत्वान्नानुमानं प्रति बाधकता संभविनी इति वक्तव्यम् , निश्चितप्रतिबन्धलिङ्गसमुत्थस्यानुमानस्यानिश्चितप्रतिबन्धलिङ्गसमुत्थेन अतुल्यबलत्वात् अत एव न साधर्म्यमात्राद् हेतुर्गमकः अपि तु आक्षिप्तव्यतिरेकात् साधर्म्यविशेषात् । नापि व्यतिरेकमात्रात् किन्तु अङ्गीकृतान्वयात् तद्विशेषात् । न च परस्पराननुविद्धोभयमात्रादपि अपि तु परस्परख५ रूपाजहद्वृत्तिसाधर्म्य-वैधर्म्यरूपवत्त्वात् । न च प्रकृतहेतौ प्रतिबन्धनिश्चायकप्रमाणनिबन्धनं त्रैरूप्यं निश्चितमिति, तदभावादेव अस्य हेत्वाभासत्वम् न पुनरसत्प्रतिपक्षत्वाऽबाधितविषयत्वापररूपविरहात् । यदा च पक्षधर्मत्वाद्यनेकवास्तवरूपात्मकमेकं लिङ्गमभ्युपगमविषयस्तदा तत् तथाभूतमेव वस्तु प्रसाधयतीति कथं न विपर्ययसिद्धिः? न च साध्यसाधनयोः परस्परतो धर्मिणश्च एकान्तमेदे पक्षधर्मत्वादिधर्मयोगो लिङ्गस्य उपपत्तिमान् , संबन्धासिद्धः। न च समवायादे: सबन्धस्य निषध १० एकार्थसमवायादिः साध्य-साधनयोः धर्मिणश्च सम्बन्धः संभवी, एकान्तपक्षे तादात्म्य-तदुत्पत्तिल
क्षणोऽप्यसौ अयुक्त एव इति पक्षधर्मत्वम्'इत्यादि हेतुलक्षणमसंगतमेव स्यात् । यदि च पक्षधर्मत्वादिकं हेतोस्रूप्यमभ्युपगम्यते कथं न परवादाश्रयणम् एकस्य हेतोरनेकधर्मात्मकस्य अभ्युपगमात् । न च यदेव पक्षधर्मस्य सपक्ष एव सत्त्वम् तदेव विपक्षात् सर्वतो व्यावृत्तत्वमिति वाच्यम् , अन्वयव्यतिरेकयोर्भावाभावरूपयोः सर्वथा तादात्म्यायोगात् तत्त्वे वा केवलान्वयी केवलव्यतिरेकी वा १५ सर्वो हेतुः स्यात् न त्रिरूपवान् व्यतिरेकस्य च अभावरूपत्वात् हेतोस्तद्रूपत्वे अभावरूपो हेतुः स्यात् । न चाभावस्य तुच्छरूपत्वात् स्वसाध्येन, धर्मिणा वा संबन्ध उपपत्तिमान् । न च विपक्षे सर्वत्रासत्त्वमेव हेतोः स्वकीयं रूपं व्यतिरेकः न तुच्छाभावमात्रमिति वक्तव्यम्, यतो यदि सपक्ष एव सत्त्वं विपक्षाद् व्यावृत्तत्वम् न ततो भिन्नमस्ति तदा तस्य तदेव सावधारणं नोपपत्तिमत् वस्तुभू. तान्याभावमन्तरेण प्रतिनियतस्य तस्य तत्राऽसंभवात् । अथ ततः तद् अन्यद् धर्मान्तरम् तर्हि एक
धर्मात्मकस्य हेतोस्तथाभूतस्थ साध्याविनाभूतत्वेन निश्चितस्य अनेकान्तात्मकवस्तुप्रतिपादनात् कथं न परोपन्यस्तहेतूनां सर्वेषां विरुद्धता एकान्तविरुद्धेनानेकान्तेन व्याप्तत्वात् ?
किञ्च, हेतुः सामान्यरूपो वा उपादीयेत परैः, विशेषरूपो वा ? यदि सामान्यरूपस्तदा तद् व्यक्तिभ्यो भिन्नम्, अभिन्नं वा ? न तावद् भिन्नम् 'इदं सामान्यम् अयं विशेषः, अयं तद्वान्' इति
वस्तुत्रयोपलम्मानुपलक्षणात् तथा च सामान्यस्य भेदेन अभ्युपगन्तुमशक्यत्वात् । न च समवाय२५वशात् परस्परं तेषां भेदेन अनुपलक्षणम् यतः समवायस्य 'इह'बुद्धिहेतुत्वमुपगीयते, न च भेदग्रहणमन्तरेण 'इह इदमवस्थितम्'इति बुद्धयुत्पत्तिसंभवः । किञ्च, "नागृहीतविशेषणा विशेष्ये बुद्धिः"
] इति काणादानां सिद्धान्तः न च सामान्यनिश्चयः संस्थानभेदावसायमन्तरेण उपपद्यते यतः दूरात् पदार्थखरूपमुपलभमानो नागृहीतसंस्थानभेदः अश्वत्वादिसामान्यमुपलब्धं
शक्नोति, न च संस्थानभेदावगमस्तदाधारोपलम्भमन्तरेण संभवतीति कथं नेतरेतराश्रयदोषप्रसङ्गः। ३० तथाहि-पदार्थग्रहगे सति संस्थानभेदावगमः तत्र च सामान्य-विशेषावबोधः तस्मिंश्च सति पदार्थस्वरूपावगतिः इति व्यक्तमितरेतराश्रयत्वम् चक्रकप्रसङ्गो वा । किञ्च, अश्वत्वादेः सामान्यभेदस्य स्वाश्रयसर्वगतत्वे कर्कादिव्यक्तिशून्ये देशे प्रथमतरमुपजायमानाया व्यक्तेः अश्वत्वादिसामान्येन योगो न भवेत् व्यक्तिशून्ये देशे सामान्यस्य अनवस्थानात् व्यत्यन्तरादनागमनाच्च ततः सर्वसर्वगतं
तद् अभ्युपगन्तव्यम् एवं च कर्कादिभिरिव शाबलेयादिभिरपि तद् अभिव्यज्येत । न च कांद्यानामेव ३५ तदभिव्यक्तौ सामर्थ्यम् न शावलेयादीनामिति वाच्यम् , यतः यया प्रत्यासत्त्या ता एव तद् आत्मनि
अवस्थापयन्ति तयैव ता एव 'अश्वः अश्वः' इति एकाकारपरामर्शप्रत्ययमुपजनयिष्यन्तीति किमपरतद्भिन्नसामान्यप्रकल्पनया? न च स्वाश्रयेन्द्रियसंयोगात् प्राक वशानजनने असमर्थ सामान्यं तदा परैरनाधेयातिशयम् तमपेक्ष्य स्वावभासि ज्ञानं जनयति, प्राक्तनाऽसमर्थस्वभावाऽपरित्यागे स्वभावान्तरानुत्पादे च तदयोगात् तथाभ्युपगमे च क्षणिकताप्रसक्तेः । न च स्वभावान्तरस्योपजायमानस्य ४० ततो भेदः संबन्धासिद्धितः तत्सद्भावेऽपि प्रग्वत् तस्य स्वावभासिज्ञानजननायोगान्न प्रतिभासः स्यात् । तथा च सामान्यस्य व्यक्तिभ्यो भेदेन अप्रतिभासमानस्य असिद्धत्वात कथं हेतुत्वम्? किञ्च, प्रतिव्यक्ति सामान्यस्य सर्वात्मना परिसमाप्तत्वाभ्युपगमात् एकस्यां व्यक्तौ विनिवेशितस्वरूपस्य तदैव
१ साधारणं वा. बा. भां० मा विना। २-यतस्य तत्रा-वा. बा. भां० मा० ।