________________
७२२
तृतीये काण्डेसिद्धेः तस्मात् संदिग्धसाध्यधर्मा धर्मी हेतोराश्रयत्वेन एष्टव्य इति यदि अनैकान्तिकस्तत्र वर्तमानो हेतु—मादिरपि तर्हि तथाविध एव स्यात् तस्यापि एवं संदिग्धव्यतिरेकित्वात् यदि हि विपक्षवृत्तित्वेन निश्चितो यथाऽगमकस्तथा संदिग्धव्यतिरेक्यपि अनुमानप्रामाण्यं परित्यक्तमेव भवेत् ततोऽनुमेय
व्यतिरिक्ते साध्यधर्मवति वर्तमानः साध्याभावे चानैकान्तिको हेतुः साध्याभाववत्येव तु वर्तमानः ५पक्षधर्मत्वे सति विरुद्ध इत्यभ्युपगन्तव्यम् । यश्च विपक्षाद् व्यावृत्तः सपक्षे च अनुगतः पक्षधर्मो निश्चितः स स्वसाध्यं गमयति प्रकृतस्तु यद्यपि विपक्षाद् व्यावृत्तस्तथापि न स्वसाध्यसाधकः प्रतिबन्धस्य स्वसाध्येनानिश्चयात् तदनिश्चयश्च न विपक्षवृत्तित्वेन किन्तु प्रकरणसमत्वेन एकशाखाप्रभवत्वादेस्तु कालात्ययापदिष्टत्वेन इति, असदेतत्; यतो यदि धर्मिव्यतिरिक्ते धर्म्यन्तरे हेतोः स्वसाध्येन
प्रतिबन्धोऽभ्युपगम्यते तदा धर्मिण्युपादीयमानोऽपि हेतुः साध्यस्योपस्थापको न स्यात् साध्यधर्मिणि १० सांध्यमन्तरेणापि हेतोः सद्भावाभ्युपगमात् तद्व्यतिरिक्त एव धर्म्यन्तरे तस्य साध्येन प्रतिवन्धग्रहणात् । न चान्यत्र स्वसाध्याविनाभावित्वेन निश्चितः अन्यत्र साध्यं गमयेत् अतिप्रसङ्गात् । अथ यदि साध्यधर्मान्वितत्वेन साध्यधर्मिण्यपि हेतुरन्वयप्रदर्शनकाल एव निश्चितस्तदा पूर्वमेव साध्यधर्मस्य साध्यधर्मिणि निश्चयात् पक्षधर्मताग्रहणस्य वैयर्थ्यम् , असदेतत्; यतः प्रतिबन्धप्रसाधकेन प्रमाणेन सर्वोपसंहारेण साधनधर्मः साध्यधर्माभावे क्वचिदपि न भवतीति सामान्येन प्रतिबन्धनिश्चये १५ पक्षधर्मताग्रहणकाले यत्रैव धर्मिण्युपलभ्यते हेतुस्तत्रैव स्वसाध्यं निश्चाययतीति पक्षधर्मताग्रहणस्य विशेषविषयप्रतिपत्तिनिवन्धनत्वान्नानुमानस्य वैयर्थ्यम् न हि विशिष्टधर्मिण्युपलभ्यमानो हेतुस्तद्तसाध्यमन्तरेण उपपत्तिमान् अन्यथा तस्य स्वसाध्यव्याप्तत्वायोगात् । न चैवं तत्र हेतूपलम्भेऽपि साध्यविषयसदसत्त्वानिश्चयः येन संदिग्धव्यतिरेकिता हेतोः सर्वत्र भवेत् निश्चितस्वसाध्याविनाभूत. हेतूपलम्भस्यैव साध्यधर्मिणि साध्यप्रतिपत्तिरूपत्वात् न हि तत्र तथाभूतहेतुनिश्चयात् अपरस्तस्य २० स्वसाध्यप्रतिपादनव्यापारः अत एव निश्चितप्रतिबन्धैकहेतुसद्भावे धर्मिणि न विपरीतसाध्योपस्थाप
कस्य तल्लक्षणयोगिनो हेत्वन्तरस्य सद्भावः तयोर्द्वयोरपि स्वसाध्याविनाभूतत्वात् नित्याऽनित्यत्वयोश्च एकत्र एकदा एकान्तवादिमतेन विरोधात् असंभवात् तद्व्यवस्थापकहेत्वोरपि असंभवस्य न्यायप्रातत्वात् संभवे वा तयोः स्वसाध्याविनाभूतत्वात् नित्याऽनित्यत्वधर्मयुक्तत्वं धर्मिणः स्यादिति कुतः प्रकरणसमस्यागमकता? अथान्यतरस्यात्र स्वसाध्याविनाभावविकलता तर्हि तत एव तस्यागमकता २५ इति किमसत्प्रतिपक्षतारूपप्रतिपादनप्रयासेन ? किञ्च, नित्यधर्मानुपलब्धिः प्रसज्यप्रतिषेधरूपा, पर्युदासरूपा वा शब्दानित्यत्वे हेतुः ? न तावत् आद्यः पक्षः अनुपलब्धिमात्रस्य तुच्छस्य साध्यासाधकत्वात् । अथ द्वितीयः तदा अनित्यधर्मोपलब्धिरेव हेतुरिति यद्यसौ शब्दे सिद्धा कथं नानित्यतासिद्धिः ? अथ चिन्तासंबन्धिना पुरुषेणासौ प्रयुज्यत इति न तत्र निश्चिता तर्हि कथं न संदिग्धासिद्धो हेतु,दिनं प्रति प्रतिवादिनस्तु असौ स्वरूपासिद्ध एव नित्यधर्मोपलब्धेस्तत्र तस्य सिद्धेः । यदपि ३० 'उभयानुपलब्धिनिवन्धना यदा द्वयोरपि चिन्ता तदैकदेशोपलब्धेरन्यतरेण हेतुत्वेन उपादाने कथं चिन्तासंबन्ध्येव द्वितीयः तस्याऽसिद्धतां वक्तुं पारयति' इत्याद्यभिधानम् , तदपि असंगतम् ; यतो यदि द्वितीयः संशयापन्नत्वात् तत्रासिद्धतां नोद्भावयितुं समर्थः प्रथमोऽपि तर्हि कथं संशयितत्वादेव तस्य हेतुतामभिधातुं शक्तो भवेत् । अथ संशयितोऽपि तत्र हेतुतामभिध्यात् तर्हि असिद्धतामप्यभिदध्यात् भ्रान्तेरुभयत्राविशेषात् । यदपि 'साधनकाले नित्यधर्मानुपलब्धिः अनित्यपक्ष एव वर्तते न ३५ विपक्षे' इत्याद्यभिधानम् तदपि असंगतम् ; विपक्षाद् एकान्ततोऽस्य व्यावृत्तौ पक्षधर्मत्वे च खसा. ध्यसाधकत्वमेव अन्योन्यव्यवच्छेदपाणामेकव्यवच्छेदेन अपरत्र वृत्तिनिश्चये गत्यन्तराभावात् न हि योऽनित्यपक्ष एव वर्तमानो निश्चितो वस्तुधर्मः स तन्न साधयतीति वक्तुं युक्तम् । अथ द्वितीयोऽपि वस्तुधर्मस्तत्र तथैव निश्चितः, न; परस्परविरुद्धधर्मयोस्तदविनाभूतयोर्वा एकत्र धर्मिण्ययोगात् योगे वा नित्यानित्यत्वयोः शब्दाख्ये धर्मिणि एकदा सद्भावाद् अनेकान्तरूपवस्तुसद्भावोऽभ्युपगतः स्यात् ४० तमन्तरेण तद्धत्वोः स्वसाध्याविनाभूतयोस्तत्रायोगात् । अथ द्वयोस्तुल्यबलयोरेकत्र प्रवृत्तौ परस्परविषयप्रतिबन्धान्न स्वसाध्यसाधकत्वम्, असदेतत्; खसाध्याविनाभूतयोर्धर्मिणि तयोरुपलब्धिरेव स्वसाध्यसाधकत्वमिति कुतस्तत्सद्भावे परस्परविषयप्रतिबन्धः? तत्प्रतिबन्धो हि तयोस्तथाभूतयो.
१ साध्यधर्ममन्तरे-वा. बा०। २ पृ. ७२० पं० १९। ३-च्छेद्यरूवा . बा।