________________
नयमीमांसा।
यद्वा व्यञ्जनपर्यायोऽर्थान्तरभूतः तदतद्विषयत्वात् तस्य, घटार्थपर्यायस्त्वन्यत्रावृत्तेनिजः ताभ्यां प्रथम-द्वितीयौ, अभेदेन ताभ्यां निर्देशेऽवक्तव्यः । यतोऽत्रापि यदि व्यञ्जनमनूद्य घटार्थपर्यायविधिः तदा तस्याशेषघटात्मकताप्रसक्तिरिति भेदनिबन्धनतद्व्यवहारविलोपः । अथार्थपर्यायमनद्य व्यञ्जनपर्यायविधिः तत्रापि कार्यकारणव्यतिरेकाभावप्रसक्तिः सिद्धविशेषानुवादेन घटत्वसामान्यस्य विधाने तस्याऽकार्यत्वात् । एवं च घटस्याभावादवाच्यः। अनेकान्तपक्षे तु युगपदभिधा-५ तुमशक्यत्वात् कथञ्चिदवाच्यः सिद्धः ११ ।
यद्वा सत्त्वमर्थान्तरभूतम् तस्य विशेषवदेकत्वादनन्वयिरूपता अत एव न तद्वाच्यमन्त्यविशेषवत् अन्त्यविशेषस्तु निजः सोऽप्यवाच्योऽनन्वयात् प्रत्येकावक्तव्याभ्यां ताभ्यामादियो घटोऽवक्तव्यः। अनेकान्तपक्षे तु कथञ्चिदवक्तव्यः १२।
अथवा 'संद्रुतरूपाः सत्त्वादयो घटः' इत्यत्र दर्शने अर्थान्तरभूताः सत्त्वादयः, निज संद्रुतरूपम् १० ताभ्यामादिष्टो घटोऽवक्तव्यः यतः सद्रुतरूपस्य सत्त्वरजस्तमस्सु सत्त्वे सत्वरजस्तमसामभावप्रसक्तिः तेषां परस्परवैलक्षण्येनैव सत्त्वादित्वात् सन्द्रुतरूपत्वे च वैलक्षण्याभावादभाव इति विशेष्याभावादवाच्यः। असत्त्वे त्वसत्कार्योत्पादप्रसङ्गः। न चैतदभ्युपगम्यते अभ्युपगमेऽपि विशेषणाभावादवाच्यः १३।
___ अथवा रूपादयोऽर्थान्तरभूताः असंद्रुतरूपत्वं निजम् ताभ्यामादिष्टोऽवक्तव्यः। यथाहि-अरूपा-१५ दिव्यावृत्ता रूपादयस्त । एवं च रूपादीनां घटताऽवाच्या अरूपादित्वाद् घटस्य । नहि परस्परविलक्षणबुद्धिग्राह्या रूपादय एकानेकात्मकप्रत्ययग्राह्याऽरूपादिरूपघटतां प्रतिपद्यन्त इति विशेष्यलोपादवाच्यः। अथाप्यरूपादिरूपा रूपादयः; नन्वेवमपि रूपादय एव न भवन्तीति तेषामभावे केऽसंद्रुतरूपतया विशेष्या येनासंद्रुतरूपा रूपादयो घटो भवेत् इत्येवमप्यवाच्यः अनेकान्तवादे च कथञ्चिदवाच्यः१४।
यदि वा रूपादयोऽर्थान्तरभूताः मंतुबर्थो निजः ताभ्यामादिष्टो घटोऽवक्तव्यः रूपाद्यात्मकैकाकारावभासप्रत्यय विषयव्यतिरेकेणापरसम्बन्धानवगतेर्विशेष्याभावात् 'रूपादिमान् घटः' इत्यवाच्यः। न चैकाकारप्रतिभासग्राह्यव्यतिरेकेणापररूपादिप्रतिभास इति विशेषणाभावादप्यवाच्यः। अनेकान्ते तु कथञ्चिदवाच्यः १५। ___ अथवा बाह्योऽर्थान्तरभूतः उपयोगस्तु निजः ताभ्यामादिष्टोऽवक्तव्यः । तथाहि-य उपयोगः स २५ घट इति यद्युच्येत तर्जुपयोगमात्रकमेव घट इति सर्वोपयोगस्य घटत्वप्रसक्तिरिति प्रतिनियतस्वरूपाभावादवाच्यः । अथ यो घटः स उपयोग इत्युच्येत तथाप्युपयोगस्यार्थत्वप्रसक्तिरित्युपयोगाभावे घटस्याप्यभावः ततश्च कथं नावाच्यः? १६।।
"एते च त्रयो भङ्गा गुण-प्रधानभावेन सकलधर्मात्मकैकवस्तुप्रतिपादकाः स्वयं तथाभूताः सन्तो निरवयवप्रतिपत्तिद्वारेण सकलादेशाः वक्ष्यमाणास्तु चत्वारः सावयवप्रतिपतिद्वारेणाशेष-३. धर्माकान्तं वस्तु प्रतिपादयन्तोऽपि विकलादेशाः” इति केचित् प्रतिपन्नाः । वाक्यं च सर्वमेकानेकात्मकं सत् स्वाभिधेयमपि तथाभूतमवबोधयति यतो न तावन्निरवयवेन वाक्येन वस्तुस्वरूपाभिधानं सम्भवति अनन्तधर्माक्रान्तकात्मकत्वाद् वस्तुनः निरवयववाक्यस्य त्वेकस्वभाववस्तुविषयत्वात् तथाभूतस्य च वस्तुनोऽसम्भवात् न निरवयवस्य तस्य वाक्यमभिधायकम् । नापि सावयवं वाक्यं वस्त्वभिधायकं सम्भवति वस्तुन एकात्मकत्वात् । न च वस्तुनो व्यतिरिक्तास्तदंशाः,३५ तद्व्यतिरेकेण तेषामप्रतीतेः-एकस्वरूपव्याप्तानेकांशप्रतिभासात् । न च तद् एकात्मकमेव अनेकांशानुरक्तस्यैव एकात्मनः प्रतिभासात् अतो वस्तुन एकानेकस्वभावत्वात् तथाभूतवस्त्वभिधायकाः
२०
१ "घटोऽर्थपर्यायः"-शास्त्रवा० स्याद्वादक० पृ० २५२ प्र. पं०६। २ “सत्त्वाऽन्त्यविशेषाभ्याम्”-बृ. ल. टि०।३ संभूतरू-वा० बा० । ४ “यतो रूपादि-" शास्त्रवा० स्याद्वादक० पृ. २५२ द्वि० पं० २।५-च्या रूपादिवा० बा०। ६-रूपत्वादि-बृ० विना। -ग्राह्यरू-वा. बा०। ८ मनुवजों वा. बा०। ९-त्मकैकाराबृ० मां० ।-त्मकेकारा-भां० ।-मकौकारा-आ० । १०-पररूपसम्ब-आ० हा० वि० । “अपररूपसम्बन्ध्यनवगतेविशेष्याभावाद् न रूपादिमान्"-शास्त्रवा० स्याद्वादक० पृ. २५२ द्वि. पं० ६। ११-भावे स-आ। १२-द्वारेण शे-बृ०॥
५७ स० त०