________________
४४२
प्रथमे काण्डेवयणविसेसाईयं व्वमवत्तव्वयं पडइ ॥ ३६॥ अस्यास्तात्पर्यार्थः-अर्थान्तरभूतः पटादिः निजो घटः ताभ्यां निजार्थान्तरभूताभ्यां सदसत्त्वं घटवस्तुनः प्रथम-द्वितीयभङ्गनिमित्तं प्रधान-गुणभावेन भवतीति प्रथम-द्वितीयौ भङ्गौ १-२ । यदा तु द्वाभ्यामपि युगपत् तद् वस्तु अभिधातुमभीष्टं भवति तदा अवक्तव्यभङ्गकनिमित्तम् तथाभूतस्य ५वस्तुनोऽभावात् प्रतिपादकवचनातीतत्वात् तूंतीयभङ्गसद्भावः वचनस्य वा तथाभूतस्याभावाद् अवक्तव्यं वस्तु ३।
आस्तिकः पर्यवास्तिकः इति मूलसंज्ञा अस्य नयस्य शब्दस्य (3) किमेताः खमनीषिका उच्यन्ते उत अस्त (स्त्य)स्य उपनिबन्धनम् आकर्षम् (आषम् ) अपीति । अस्तीत्युच्यते, उपनिबन्धनमस्य तदुभयः स आदिष्टः इत्यादि ।
“इमा णं भंते ! रयणप्पभा पुढवी आता नोआता ?' इति पृष्टे भगवद्वचनम् -'गोयमा ! अप्पणो आदिढे आया, परस्स आदिढे नोआया, तदुभयस्स आदिढे अवत्तव्यं आता ति य णोआता ति य'" इति । एवम् अवक्तव्यत्वम् आत्माऽ. नात्मपर्यायाभ्यामादेशेऽत्र ज्ञापकनिबन्धनमुच्यते इति।
नियमभङ्गो नवमोऽरः श्रीमल्लवादिप्रणीतनयचक्रस्य टीकायां न्यायागमानुसारिण्यां सिंहसूरिगणिवादिक्षमाश्रमणहब्धायां समाप्तः"।-नयचक्रलि. को० पृ० ९२९ पं० ३-१४ । अनुयोग. पृ० ५५ द्वि० सूत्रांक ७६। १-साइय ल. विना। २ प्रमेयर० को० पृ० १२-पृ. २० सप्तभङ्गीस्थापनम् । ३१ 'स्याद् अस्ति' ।
२ 'स्यान्नास्ति' ३ 'स्याद् अवक्तव्यः'
४ 'स्याद् अस्तिनास्ति' इत्येवं भङ्गक्रमः अत्र मूले टीकायां चास्ति । एवमेव च तत्क्रमः तत्त्वार्थसूत्रभाष्ये, विशेषावश्यकभाष्ये, दिगम्बरीयप्रवचनसारेऽपि दृश्यते । तथाहि
"उत्पन्नास्तिकस्य उत्पन्नं वा, उत्पन्ने वा, उत्पन्नानि वा, सत्" । "अनुत्पन्नं वा, अनुत्पन्ने वा, अनुत्पन्नानि वा असत्"।
"अर्पिते अनुपनीते न वाच्यम्-सदिति असदिति वा"-तत्त्वार्थसू० भा० अ०५ सू० ३१ पृ. ४०६ पं० २० तथा पृ० ४१० पं० २९ । "सब्भावाऽसब्भावोभयप्पिओ सपरपजओभयओ। कुंभाऽकुंभऽवत्तव्वोभयरूवाइमेओ सो" ॥
-विशेषाव. भा० गा०२२३२ पृ. ९१० । "अस्थि त्ति य णत्थि त्ति य हवदि अवत्तव्वमिदि पुणो दव्वं । पज्जाएण दु केण वि तदुभयमादिट्ठमण्णं वा" ॥२३॥
-प्रवचनसा० पृ० १६१। प्रवचनसारटीकायामपि तथैवास्ति । "अयं च (स्याद् अवक्तव्यमेव) भगः कैश्चित् ('स्थादस्त्येव स्यान्नास्त्येव' इति) तृतीयभजस्थाने पठ्यते । तृतीयश्च एतस्य स्थाने"-रत्नाकराव. चतु. परि. सू. १८ पृ. ६२ पं० २६॥ १ 'स्याद् अस्ति'
२ 'स्यान्नास्ति' ३ 'स्याद् अस्तिनास्ति'
४ 'स्याद् अवक्तव्यः' इत्येवं तृतीय-चतुर्थभङ्गयोः स्थानव्यत्ययः श्वेताम्बरीयप्रमाणनयतत्त्वालोकालंकार-रत्नाकरावतारिका-स्थाद्वादमजरी-नयोपदेशेषु दिगम्बरीयपनास्तिकाय-आप्तमीमांसा-तत्त्वार्थराजवार्तिक-तत्त्वार्थश्लोकवार्तिक-सप्तभङ्गीतरङ्गिणीषु च वर्तते । तथाहि
१ "स्यादस्त्येव सर्वमिति विधिकल्पनया प्रथमो भङ्गः"। २ "स्यान्नास्त्येव सर्वमिति निषेधकल्पनया द्वितीयः" । ३ "स्यादस्त्येव स्यान्नास्त्येवेति क्रमतो विधि-निषेधकल्पनया तृतीयः”। ४ "स्यादवक्तव्यमेवेति युगपद् विधिनिषेधकल्पनया चतुर्थः" ।
-प्रमाणनयत. चतु० परि० सू० १७-१८ । रत्नाकराव० चतु० परि० सू० १७-१८ पृ०६२ । स्याद्वादमञ्ज.पृ. १८९५० ८ आ० । नयोप० पृ. १२ द्वि० पं०९। "सिय अत्थि णत्थि उहयं अव्वत्तव्वं पुणो य तत्तिदयं । दव्वं खु सत्तभंगं आदेसवसेण संभवदि" ॥१४॥
-पञ्चास्तिका" पृ० ३० । प्रवचनसार-पञ्चास्तिकाययोः समानकर्तृकतायामपि प्रवचनसारे पूर्वोक्तः क्रमः पञ्चास्तिकाये तु ततो भिन्नः क्रमः। "कथंचित् ते सदेवेष्टं कथंचिदसदेव तत् । तथोभयमवाच्यं च नययोगान्न सर्वथा" ॥ १४ ॥
-आप्तमीमां० पृ. १२॥