SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ १४ प्रामाण्यवादः। योगो येन तयोर्यथार्थत्वस्वभावं प्रामाण्यमिन्द्रियव्यापारजनितेन प्रत्यक्षेण निश्चीयते; नापि मनोव्यापारजेन प्रत्यक्षण, एवंविधस्यानुभवस्याभावात् : नापि तयोरुत्पादकस्य ज्ञातृव्यापाराख्यस्य यथार्थत्वनिश्चायकत्वं प्रामाण्यं बाह्येन्द्रियजन्येन मनोजन्येन वा प्रत्यक्षेण निश्चीयते, तेन सहेन्द्रियाणां सम्बन्धाभावात् । न चेन्द्रियासम्बद्ध विषये ज्ञानमुपजायमानं प्रत्यक्षव्यपदेशमासादयतीत्युक्तम् । ५नाप्यनुमानतः प्रामाण्यनिश्चयः, पूर्वोक्तस्य फलद्वयस्य यथावस्थितार्थत्वलक्षणप्रामाण्य निश्चये लिङ्गाभावात् । ज्ञातृव्यापारस्य तु पूर्वोक्तफलद्वयस्वभावस्वकार्यलिङ्गसम्भवेऽपि न यथार्थनिश्चायकत्वलक्षणप्रामाण्यनिश्चायकत्वम्: यतस्तल्लिङ्गं संवेदनाख्यं यथार्थत्वविशिष्टं तनिश्चये व्याप्रियेत, निर्विशेषणं वा? प्रथम पक्षे तस्य यथार्थत्वविशेषणग्रहणे प्रमाणं वक्तव्यम्, तश्च न सम्भवतीति प्रतिपादितम् । निर्विशेषणस्य फलस्य प्रामाण्यप्रतिपादकत्वे मिथ्याशानफलमपि प्रामाण्य निश्चायक १० स्यादित्यतिप्रसङ्गः । तत्रैतत् स्यात् पूर्वोक्तं फलद्वयमर्थसंवेदन-अर्थप्रकटतालक्षणमनुभवानिश्ची यते, यथा तस्य स्वतः पूर्वोक्तस्वरूपनिश्चयस्तथा यथार्थत्वस्यापि, यथा हि तत् संवेद्यमानं नीलसंवेदनतया संवेद्यते तथा यथार्थत्वविशिष्टस्यैव तस्य संवित्तिः; नहि नीलसंवेदनादन्या यथार्थत्वसंवित्तिः। यद्येवम् , शुक्तिकायां रजतज्ञानेऽपि अर्थसंवेदनस्वभावत्वाद् यथार्थत्वप्रसक्तिः। स्मृतिप्रमोषा दयस्तु निषेत्स्यन्ते इति नानुमानादपि तत्प्रामाण्यनिश्चयः। किंच, प्रत्यक्षाऽनुमानयोः प्रामाण्य. १५निश्चयनिमित्तत्वेऽभ्युपगम्यमाने स्वतःप्रामाण्यनिश्चयव्याहतिप्रसङ्गः तन्नान्यनिमित्तोऽपि प्रामाण्यनिश्चयः । यदुक्तम् 'नापि प्रामाण्यं स्वनिश्चयेऽन्यापेक्षम्, तझ्यपेक्षमाणं किं कारणगुणानपेक्षते' इत्यादि, तदनभ्युपगमोपालम्भमात्रम् ; न ह्यस्मदभ्युपगमः-यदुत स्वकारणगुणज्ञानात् प्रामाण्यं विज्ञायते, कारणगुणानां संवादप्रत्ययमन्तरेण ज्ञातुमशक्यत्वात् , संवादप्रत्ययात् तु कारणगुणपरि शानाभ्युपगमे तत एव प्रामाण्यनिश्चयस्यापि सिद्धत्वाद् व्यर्थ गुणनिश्चयपरिकल्पनम् , प्रामाण्य२० निश्चयोत्तरकालं गुणज्ञानस्य भावात् तन्निश्चयस्य प्रामाण्यनिश्चयेऽनुपयोगाश्च । नाप्येकदा संवादाद् गुणान् निश्चित्य अन्यदा संवादमन्तरेणापि गुणनिश्चयादेव तत्प्रभवस्य ज्ञानस्य प्रामाण्यनिश्चयः इति वक्तुं शक्यम्, अत्यन्तपरोक्षेषु चक्षुरादिषु कालान्तरेऽपि निश्चितप्रामाण्यस्वकार्यदर्शनमन्तरेण गुणानुवृत्तेर्निश्चेतुमशक्यत्वात् । न च क्षणक्षयिषु भावेषु गुणानुवृत्तिरेकरूपैव सम्भवति, अपरापर सहकारिभेदेन भिन्नरूपत्वात् । संवादप्रत्ययाञ्चार्थक्रियाज्ञानलक्षणात् प्रामाण्यनिश्चयोऽभ्युपगम्यत २५एव-"प्रमाणमविसंवादिज्ञानम्"[ ] इति प्रमाणलक्षणाभिधानात् । न च संवादित्वलक्षणं प्रामाण्यं स्वत एव ज्ञायत इति शक्यमभिधातुम् , यतः संवादित्वं संवादप्रत्ययजननशक्तिः प्रमाणस्य; न च कार्यदर्शनमन्तरेण कारणशक्तिनिश्चेतुं शक्या।यदाह-"न प्रत्यक्षे कार्य कारणभावगतिः” [ . ] इति । तस्मादुत्तरसंवादप्रत्ययात् पूर्वस्य प्रामाण्यं व्यवस्थाप्यते । न च संवादप्रत्ययात् पूर्वस्य प्रामाण्यावगमे संवादप्रत्ययस्याप्यपरसंवादात् प्रामाण्यावगम इत्यनवस्थाप्रस३०ङ्गात् प्रामाण्यावगमाभाव इति वक्तुं युक्तम् , संवादप्रत्ययस्य संवादरूपत्वेनापरसंवादापेक्षाऽभावतोऽनवस्थाऽनवतारात् । न च प्रथमस्यापि संवादापेक्षा मा भूदिति वक्तव्यम्, यतस्तस्य संवादजनकत्वमेव प्रामाण्यम्; तदभावे तस्य तदेव न स्यात् । अर्थक्रियाज्ञानं तु साक्षादविसंवादि, अर्थक्रियालम्बनत्वात्। तस्य स्वविषयसंवेदनमेव प्रामाण्यम्-तच्च-स्वतः सिद्धमिति नान्यापेक्षा । तेन 'कस्यचित्तु यदीष्येत' इत्यादि परस्य प्रलापमात्रम् । न चार्थक्रियाज्ञानस्याप्यवस्तुवृत्तिशङ्काया३५मन्यप्रमाणापेक्षयाऽनवस्थाऽवतारः इति वक्तव्यम्, अर्थक्रियाज्ञानस्यार्थक्रियानुभवस्वभावत्वेनार्थक्रियामात्रार्थिनां 'मिन्नार्थक्रियात एतद् ज्ञानमुत्पन्नम्, उत तयतिरेकेण' इत्येवंभूतायाश्चिन्ताया निष्प्रयोजनत्वात् । तथाहि-यथा अर्थक्रिया किमवयवव्यतिरिक्तेनावयविनाऽर्थेन निष्पादिता, उताऽव्यतिरिक्तेन, आहोस्विदुभयरूपेण, अथानुभयरूपेण, किंवा त्रिगुणात्मकेन, परमाणुसमूहात्मकेन वा, अथ ज्ञानरूपेण, आहोस्वित् संवृतिरूपेण' इत्यादिचिन्ताऽर्थक्रियामात्रार्थिनां निष्प्रयोजना४० निष्पन्नत्वाद् वाञ्छितफलस्य-तथेयमपि 'किं वस्तुसत्यामर्थक्रियायां तत्संवेदनशानमुपजायते, आहोस्विदवस्तुसत्याम्' इति, तृ-दाहविच्छेदादिकं हि फलमभिवाञ्छितम्, तश्चाभिनिष्पन्न तद्वियोगज्ञानस्य स्वसंविदितस्योदये इति तच्चिन्ताया निष्फलत्वम्। अवस्तुनि ज्ञानद्वयासंभवाच । १पृ० १३ पं० ३९ । २ पृ० १३ पं०४०। ३ मिथ्याज्ञाने फलमपि भा०, मां०, कां०। ४ नीलं संवेदन-गु, भा०, हा०। ५पृ०५पं० १५।६ ग्रन्थ ग्रम् ५००। ७स्वविषयं गु० विना सर्वत्र । वि. प्रती तु 'स्वविषयसंवेदन-' इति परिष्कृतम् । ८ पृ. ६ पं० २९ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy