SearchBrowseAboutContactDonate
Page Preview
Page 403
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डेव्यापारात् । न चोत्पन्नः प्रध्वंसाभावः काष्ठादीनुपमर्दयति तद्योगपद्यप्रसङ्गात् ; तथा च सत्यविरोधप्राप्तिः । ध्वंसेन च काष्ठादेविनाशने विकल्पत्रयस्य तदवस्थत्वात् ततश्चानवस्था । न च ध्वंसेनावृतत्वात् काष्ठादेरनुपलम्भः तदवस्थे तस्मिन्नावरणायोगात् ततो विकारभावे वा पुनरपि विकल्पत्रयानतिवृत्तिः। किञ्च, यदि हेतुमान् विनाशस्तदा तद्भेदात् म(स) भेदं किं नानुभवेत् ? कार्यात्म(त्मा)५नो हि घटादयः कारणभेदाद् भेदमनुभवन्तोऽध्यक्षत एवावसीयन्ते, नैवमनासादितभावान्तरसम्बन्धः प्रच्युतिमात्रस्वभावो ध्वंसः तस्याग्यभिघातादिहेतुभेदेऽपि तुस्व(च्छ)रूपतयैव सर्वत्र विकल्पज्ञानेऽवभासनात् । नहि 'अभावो भावः' इति तुच्छरूपतामपहायापरं तस्य किञ्चिद् रूपमीक्ष्यते हेतुमत्त्वे च तद्घस्थस्तस्य विनाशप्रसङ्गः । अथ विनाशस्य विनाशहेतुर्न दृष्ट इति नासौ विनश्यति । तदुक्तम् "घटादिषु (?) यथा हेतवो ध्वंसकारिणः। नैवं नाशंस्य सो हेतुस्तस्य सजायते कथम् ?" [ ] इति । भन्वेवं वुझ्यादीनामप्यविनाशिताप्रसक्तिः विनाशहेत्वदर्शनात् । अथात्राऽदृष्टोऽपि ध्वंसहेतुः कल्प्यते अहेतुकविनाशानुपपत्तेः अन्यत्र तस्य हेतुमत्त्वदर्शनात्, वुद्ध्यादीनां चोत्तरकालं स्वरूपा. संवेदनात् अवस्थितरूपत्वे च तेषां तदद्योगादिति, असदेतत् स्वसंविदितत्वानभ्युपगमे बुढ्यादी. १५ नामस्य प्रलापमात्रत्वात् । तथाहि-यथा घटादयो भावा न सर्वदैव ज्ञानविषयतामुपगच्छन्ति तथा बद्ध्यादयोऽपि ज्ञानान्तरसंवेद्याः सन्तोऽपि नावश्यमनुभवपथमुपयास्यन्तीति कुतस्तेषामनुपलम्भादभावनिश्चयः ? न चैकदोपलब्धानामन्यथा( दा )ऽत्यन्तानुपलम्भादसत्त्वनिश्चयो युक्तः, यत उपलम्भः प्रमेयकार्यम्, न च कार्यनिवृत्तिः कारणाभावं गमयति, "न हि अवश्यं कारणानि फल वन्ति" [ ] इति न्यायात् केवलमनुपलभ्यमाना बुद्ध्यादय उपलंम्भप्रत्ययान्तर विकला २०न 'असन्त एव' इति निश्चयः । येषां त्वर्थापत्तिसमधिगम्या बुद्धिस्तेषां चक्षुरादीनामिव कार्याना रम्भेऽपि कुतोऽस्या प्रभ(अभा)वो भवेत् ? अथवा एकैवावस्थितरूपा बुद्धिस्तांस्तान् पदार्थान् क्रमेणोपलभते, न ह्यस्या घटादीनामिव विनाशकारणमुत्पश्यामः, ततोऽदृष्टोऽपि यथाऽस्या विनाशहेतुः कल्प्यते विनाशस्यापि तथैव कल्प्यताम्, ततो विनौशेनापि स्वविषयज्ञानजननसामर्थ्य बिभ्राणेन विनंष्टव्यमिति घटादीनां पुनरप्युन्मजनप्रसङ्गः । य(त)तोऽयमहेतुर्निःस्वभावोऽभ्युपग२५न्तव्यः, अग्निसंयोगादयस्तु काष्टादिप्वङ्गारादिकमेव जनयन्ति, काष्ठादयस्तु स्वरसत एवं निरुध्यत (न्त) इत्यनवद्यम् । लोकश्चाकिञ्चिद्रूपतामेवे नाशस्य प्रतिपद्यते, तत्त्वमपि(?) वा(चा)सतोऽकिचिद्रूपतैव, यतोऽवैपरीत्यं तत्वमुच्यते, नैं चैतद् विपरीतं यत् 'अकिञ्चिद्रूपो ध्वंसः' इति । ततो यद्यपि 'सदसती तत्त्वम्' इति व्यपदेशस्तथापि नासतो वस्तुता । तेन "विनाशकाले १ न वोत्प-आ० हा० वि० । २-ध्वंस्याभावः भां. मां०। ३-वृत्तत्वा-भा० आ. विना । ४ तद्भेदात् म भेदात्म भेदं वा० बा०। ५-न्तरं स-भां० मां०। ६-स्यायेभिघा-आ० हा०वि०।-स्याट्याविघा-वा० बा०। -शहेतुर्न भां० मां०। ८-था--हेतवो भां० मा०।-था दहेतवो आ० । -थादहेतवो हा० वि०। ९-कारिणाः तैवं हा० वि० ।-कारिणाः ति(ते )वं आ०। १०-शस्य संजा-भां० मा० ।-शस्य सोऽहेतुस्तस्य संज्ञायतो कथ-वा० बा०। ११ नत्वेवं भा० मा० आ० हा० वि०। १२ अ त्रा-वा० बा०। १३-ति चेत् अस-वा० बा० विना। १४-झ्यादीनां नामस्य प्रलापनात्वात् वा० बा० । १५-लम्भावनि-भा० मां०। १६ न वैक-आ० हा० वि० । १७-कदोषलब्धा -वा. बा. भां० मा. आ. वि.। १८ न च कार्य न च कार्यनि-वा. बा० । १९-लम्भः प्र-भां० मा. आ. हा०वि०। २०-रविल्पनास-वा० बा० ।-रविकालनास-आ० हा० वि० । २१ अथचैकै-भां० म०। २२-नाशिनाभां० मा० । २३-मर्थ्य ब बिभ्रा-भां. मां० । २४-व निरूध्यत-भा० मा०वि०।-व विरुत-वा० बा० । २५-व गाशस्य आ० हा०।-व गास्य वि० ।-व गात्रस्य वि० सं०। २६- द्रुपपत्तैव यतो-मां० । -दूपपतैव यतो-भां० ।-द्रूप वि यतो-आ० । २७ यतो वै-वा० बा० विना। २८ न चै परीत्यं तत्त्वमुच्यते न चैव तद्वि-भां. मां०। २९-यदि किञ्चिद्रपौ ध्वं-आ०। ३० "किं पुनस्तत्त्वम् ? सतश्च सद्भावः असतश्च असद्भावः” १, १, १ न्यायद० भा० पृ. २ पं० ५। "किं पुनस्तत् ? सदसती तत्"-न्यायवा० पृ. १५.८ । "किं पुनस्तत्त्वम् ?xoxसदसती" इति-न्यायवा. ता. टी. पृ. ३२ पं० ११॥
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy