SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ २८० प्रथमे काण्डेदिविशिष्टादर्थ विशेषप्रतिपत्ति सत्या। अलीका अहिदंशादयः सत्यमरणहेतवस्तत्त्वविद्भिदाहता एव-यथा-सत्या दंशाद् मरण-मूर्छादि कार्य तथा कल्पितादपि, न तयोर्विशेषः तस्माद्यथा दंशादेरसत्यात् सत्यकार्यनिष्पत्तिस्तथा भेदविषयात् श्रवण-मनन-ध्यानाऽभ्यासादेरसत्यादपि क्षेमप्राप्ति नन्वेवम् अभेदे व्यवस्थिते कथं सुख-दुःखोपलम्भव्यवस्था कथं वा बद्ध-मुक्तव्यवस्थेति ५ नैष दोषः; समारोपितादपि भेदात् सुखादेर्व्यवस्थादर्शनात्-यथा-द्वैतिनां शरीरे एक एवात्मा सर्व गतो वा ठारीरपरिमाणोवाः तस्य समारोपितमेदनिमित्ता व्यवस्था दृश्यते-'पादे मे वेदना' शिरा वेदना' इति, न च वक्तव्यम्-पादादीनामेव वेदनाधिकरणत्वात् तेषां च भेदाद् व्यवस्था युक्तति, यतस्तेषामज्ञत्वेन कथं भोक्तृत्वम् ? भोक्तृत्वे वा सुरगुरुमतानुप्रवेशः आत्मनः सद्भावेऽपि कर्मफलस सुखादेरनुपलम्भात् । तत्रैतत् स्यात्-अद्वैतपक्षे येथैकभेदाश्रितस्यात्मनः कालान्तरे भोगानुस१०न्धानम् तथा देहान्तरोपभोगस्य भेदान्तरे अनुसन्धानं भवेत्, एतदपि न किञ्चित् ; यतो द्वैतिना मपि पादादिप्रदेशो न प्रदेशान्तरवेदनामनुसन्दधाति तथा क्षेत्रज्ञोऽपि कुतश्चिन्निमित्तात् समारो पितभेदो न क्षेत्रशान्तरवेदनामनुसन्धास्यति । तथा, मणि-कृपाण-दर्पणादिषु प्रतिबिम्बानां वर्ष. संस्थानान्यत्वं दृश्यते भेदाभावेऽपि, मुक्त-संसारिव्यवहारोप्युपपद्यते अभेदपक्षेऽपि । तथाहि द्वैतिनामप्यात्मा कल्पितैः प्रदेशैः सुखादिभिर्युज्यमानः क्वचित् सुखादियोगाद् बन्धः (द्धः) क्वचित् १५ तद्वियोगाद् मुक्त इति दृश्यते, यथा मलीमसादर्श मुखं मलीमसम् विशुद्ध विशुद्धम् दर्पणरहितं च गम्यमानं तदुपाधिदोषासंयुक्तम् । तत्रैतत् स्यात्-कल्पना प्रतिपत्तुः प्रत्ययस्य धर्मो न वस्तुव्यवहारव्यवस्थानिबन्धनम्, न खलु वस्तूनि पुरुषेच्छामनुरुन्धते, न चोपचरितात् कार्य दृश्यते, नोपचरिताग्नित्वो माणवकः पाकादिष्व(पू)पयुज्यते, एतत् परिहृतं भ्रान्तीनामपि सत्यहेतुत्वं प्रदर्शयद्भिः"प्रतिसूर्यश्च काल्पनिकः प्रकाशक्रियां कुर्वन् दृष्ट एव"[ __]इति 'सर्वमेकं सत्, २० अविशेषात' इति शुद्धद्रव्यास्तिकाभिप्रायः । [२ सांख्यमतप्रतिपादकः अशुद्धद्रव्यास्तिकनयः] अशुद्धस्तु द्रव्यार्थिको व्यवहारनयमतार्थावलम्बी एकान्तनित्यचेतनाऽचेतनवस्तुद्वयप्रतिपादकसाङ्ख्यदर्शनाश्रितः । अत एव तन्मतानुसारिणः सायाः प्राहुः "अशेषशक्तिप्रचितात् प्रधानादेव केवलात् । कार्यभेदाः प्रवर्तन्ते तद्रूपा एव भावतः ॥" [ तत्त्वसं० का० ७ ] यद् अशेषाभिर्महदादिकार्यग्रामजनिकाभिरात्मभूताभिः शक्तिभिः प्रचितं युक्तं सत्त्व-रजस्तमसां साम्यावस्थालक्षणं प्रधानम् तत एव महदादयः कार्य भेदाः प्रवर्तन्त इति कापिलाः । 'प्रधानादेव' इत्यवधारणं काल-पुरुषादिव्यवच्छेदार्थम् । 'केवलात्' इति वचनं सेश्वरसायोपकल्पितेश्वरनिराकरणार्थम् । 'प्रवर्तन्ते' इति साक्षात् पारम्पर्येणोत्पद्यन्ते इत्यर्थः। तथाहि-तेषां ३० प्रक्रिया--प्रधानाद् बुद्धिः प्रथममुत्पद्यते, बुद्धेश्चाहङ्कारः, अहङ्कारात् पञ्च तन्मात्राणि शब्द-स्पर्शरूप-रस-गन्धात्मकानि-इन्द्रियाणि चैकादशोत्पद्यन्ते-पञ्च बुद्धीन्द्रियाणि श्रोत्र-त्वक्-चक्षुर्जिह्वाघ्राणलक्षणानि, पञ्च कर्मेन्द्रियाणि वाक्-पाणि-पाद-पायु-उपस्थसंज्ञकानि, एकादशं मनश्चेतिपञ्चभ्यस्तन्मात्रेभ्यः पञ्चभूतानि-शब्दाद् आकाशः, स्पर्शाद् वायुः, रूपात् तेजः, रसाद् आपः, गन्धात् पृथिवीति । तदुक्तमीश्वरकृष्णेन १-काऽहि-भां० मां० । “कथं तु असत्येन वेदान्तवाक्येन सत्यस्य ब्रह्मात्मत्वस्य प्रतिपत्तिरुपपद्येत ? न हि रज्जुसर्पण दष्टो म्रियते नापि मृगतृष्णिकाम्भसा पानाऽवगाहनादिप्रयोजनं क्रियत इति, नैष दोषः; शङ्काविषादिनिमित्तमरणादिकार्योपलब्धेः, स्वप्नदर्शनावस्थस्य च सर्पदंशनोदकस्नानादिकार्यदर्शनात्"- ब्रह्मसू० अ० २ पा० १ सू० १४ शाङ्क० भा० पृ. ४५८ पं० १२ । २-षयश्र-आ० हा० वि० । ३ नै दो-वा० बा० । न दो-आ० हा० वि०।४-रे पवा-वा० बा। ५ यदेक-वा. बा०। ६ अत्र 'तथा' ‘एवं' इत्यादेः कस्यचित् पदस्याध्याहारः समुचितो भाति। ७-मसादर्श मुखं विशुद्ध हा०वि० ।-मसा मुखं विशुद्ध वा० बा० ।-मसे दर्पणतले मलीमसं मुखं विशुद्ध भां• मां०। ८-श्च कादि काल्प-वा. बा०। ९ पृ. २७२ पं० १७। १०-शुद्धद्र-आ• हा. वि.। ११-णः संख्याः भां. हा. विना । १२ इदं संपूर्ण सांख्यप्रकरणं तत्त्वसंग्रहपञ्जिकायां वर्तते-का. ७-१५, पृ० १६-२२ । प्रकृतिपरीक्षा । १३ तत्त्वसं० पनि० पृ० १६ पं० १७ । १४ तत्त्वसं० पजि. पृ. १६ पं०१७। १५ “"प्रवर्तन्ते' , इति साक्षात् पारम्पर्येण वा उत्पद्यन्ते इत्यर्थः"-तत्त्वसं० पजि. पृ० १६५०१८। १६-णोत्पाद्य-मां मां विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy