SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ॥ अहम् ॥ श्रीसिद्धसेनदिवाकररचितं संमतितर्क-प्रकरणम् । --- DOOR-- राजगच्छीय-तर्कपञ्चानन-न्यायचक्रवत्ति-श्रीअभयदेवसूरिनिर्मितया तत्त्वबोधविधायिन्याख्यया व्याख्यया सहितम् । प्रथमः काण्डः । स्फुरद्वागंशुविध्वस्तमोहान्धतमसोदयम्। वर्धमानार्कमभ्ययं यते सम्मतिवृत्तये ॥१॥ प्रज्ञावद्भिर्यद्यपि सम्मतिटीकाः कृताः सुबह्वर्थाः। ताभ्यस्तथाऽपि न महानुपकारः स्वल्पवुद्धीनाम् ॥२॥ शेमुष्युन्मेषलवं तेषामाधातुमाश्रितो यत्नः। मन्दमतिना मयाऽप्येष नात्र संपत्स्यते विफलः ॥ ३॥ 'इह च शारीर-मानसानेकदुःखदारिद्योपद्वविद्रुतानां निरुपमाऽनतिशयानन्तशिवसुखानन्यसमाऽवन्ध्यकारणसम्यग्ज्ञान-दर्शन-चारित्रात्मकपरमरत्नत्रयजिघृक्षया अतिगम्भीरजिनवचनमहोदधिमवतरीतुकामानां तदवतरणोपायमविदुषां भव्यसत्त्वानां तदर्शनेन तेषां महानुपकारः प्रव.१५ तताम्, तत्पूर्वकश्चात्मोपकारः' इति मन्वान आचार्यो दुष्षमाऽरसमाश्यामासमयोद्भूतसमस्तजनताहार्दसंतमसविध्वंसकत्वेनावाप्तयथार्थाभिधानः सिद्धसेनदिवाकरः तदुपायभूतसम्मत्याख्यप्रकरणकरणे प्रवर्त्तमानः "शिष्टाः क्वचिदभीष्टे वस्तुनि प्रवर्त्तमाना अभीष्टदेवताविशेषस्तव विधानपुरस्सरं प्रवर्त्तन्ते" इति तत्समयपरिपालनपरस्तद्विधानोद्भतप्रकृष्टशुभभावानल्पज्वलदनलनिर्दग्धप्रचुरतरक्लिष्टकर्माविर्भूतविशिष्टपरिणतिप्रभवां प्रस्तुतप्रकरणपरिसमाप्तिं चाऽऽकलयन् 'अर्हतामप्यर्हत्ता २० शासनपूर्विका, पूजितपूजकश्च लोकः, विनयमूलश्च स्वर्गा-ऽपवर्गादिसुखसुमनःसमूहानन्दामृतरसोदग्रस्वरूपप्राप्तिस्वभावफलप्रदानप्रत्यलो धर्मकल्पद्रमः' इति प्रदर्शनपरैर्भुवनगुरुभिरप्यवाप्तामलकेवलज्ञानसंपद्भिस्तीर्थकृद्भिः शासनार्थाभिव्यक्तिकरणसमये विहितस्तवत्वात् 'शासनमतिशयतः स्तवाहम्' इति निश्चिन्वन् 'असाधारणगुणोत्कीर्तनस्वरूप एव च पारमार्थिकस्तवः' इति च संप्रधार्य शासनस्याभीष्टदेवताविशेषस्य प्रधानभूतसिद्धत्व-कुसमयविशासित्वा-ऽहत्प्रणीतत्वादिगुण-२५ प्रकाशनद्वारेण स्तवाभिधायिकां गाथामाह सिद्धं सिद्धत्थाणं ठाणमणोवमसुहं उवगयाणं । कुसमयविसासणं सासणं जिणाणं भवजिणाणं ॥१॥ अस्याश्च समुदायार्थ एतत्पातनिकयैव प्रकाशितः, अवयवार्थस्तु प्रकाश्यते-शास्यन्ते जीवादयः पदार्था यथावस्थितत्वेन अनेनेति 'शासनं' द्वादशाङ्गम्, तच्च 'सिद्धं' प्रतिष्ठितम्-निश्चित-३० प्रामाण्यमिति यावत्-स्वमहिम्नैव, नातः प्रकरणात् प्रतिष्ठाप्यम् । १ दुषमसम(मा)श्यामा-वा०। २-प्रतिपालन-वा०, कां० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy