SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ २४८ प्रथमे काण्डेसामर्थ्यावधारणम् । अर्थादिव्यतिरेकाच नर्वि(न वि)कल्पव्यतिरेकः एतत्समानजातीयानामतीतादिविकल्पानामाद्यभावेऽपि भावादित्यविकल्पोत्पादन एवार्थेन्द्रियादेः सामर्थ्यमवसीयते इत्यम्युपगमादस्त्येव सामग्रीभेदः ततः कार्यभेदोऽपि सङ्गत एव, असदेतत्; तिमिरपरिकरितचक्षुषोऽई. व्यतिरेकेणाप्य विकल्पकस्य कस्यचिदुत्पत्तिदर्शनादपरस्यापि तजातीयतयाऽविकल्पदर्शनस्य विकल्प ५वदनर्थजन्यत्वप्रसक्तेः । अथ तैमिरिकानुभवादनुपहतेन्द्रियजाध्यक्षस्य भेदान्नानन्तरोक्तप्रसङ्गः, नन्वे तत् सविकल्पकेऽपि समानम् । न चैकत्र विकल्पेऽवैशद्यदर्शनात् तजातीयतया सर्वत्र तथाभावसिद्धिः, अविकल्पस्यापि दूरार्थग्राहिणः कस्यचिदवैशद्योपलब्धेः तदन्यस्यापि तद्भावप्रसक्तेः। तत् स्थितमक्षभाविनो विकल्पस्यार्थसाक्षात्करणलक्षणं वैशद्यम्; तेन 'स्वव्यापारमेवमादर्शयतो विकल्प स्योत्पत्तेः स्वव्यापारमुत्प्रेक्षात्मकं तिरस्कृत्य दर्शनव्यापारानुसरणाद् विकल्पः प्रमाणं न भवति' १० इत्येतन्निरस्तं द्रष्टव्यम् । विकल्पश्चैक एवार्थग्राह्युपलक्ष्यते नापरं दर्शनम् यद्यापारानुसारिणो विकल्प स्थाप्रामाण्यं भवद्भिः गृहीतग्राहितया प्रतिपाद्यते । विकल्पाऽविकल्पयोर्लघुवृत्तेर्विकल्पव्यतिरेकेणाविकल्पस्यानुपलक्षणेऽङ्गीक्रियमाणे वर्णयोरपि लघुवृत्तेरितरेतरव्यतिरेकेणानुपलक्षणप्रसक्तिः। न च वर्णयोस्तथाभूतलघुवृत्तेरभावात् परस्परव्यतिरेकेणोपलक्षणसद्भावः, युगपज्ज्ञानानुत्पत्तिवादिनोऽपि ताभ्यां व्यभिचाराभावप्रसक्तेः । नापि सादृश्याद् विकल्पाऽविकल्पयोर्भेदेनानुपलक्षणम्, सन्ताने१५तरविषयत्वेन तयोरेकविषयत्वकृतसादृश्याभावात् । ज्ञानरूपतया सादृश्ये नीलाऽनीलाकारज्ञान योरपि ज्ञानात्मना सादृश्यान्न स्याद् भेदेनोपलक्षणम् । तन्नाऽविकल्पकज्ञानसद्भावः। अथ यदि प्रथमाक्षसन्निपात एव सविकल्पकं दर्शनमुदयमासादयति तद्बाह्यस्त्वर्थात्मा; तथा सत्यर्थग्रहणाभाव एव प्रसक्तः। तथाहि-अर्थदर्शने सति तत्सन्निधाने दृष्टे तद्वाचके स्मृतिः, तत्स्मृतौ च तेनार्थ योजयति, तद्योजितं चार्थ विकल्पिका बुद्धिरध्यवस्यति । न च सविकल्पकप्रत्यक्षवादी अंशब्दकमर्य २०पश्यति, तदर्शनमन्तरेण च (न) तद्वचःस्मृतिः, तामन्तरेण च न वचनपरिष्वक्तार्थदर्शनम् इत्यर्थदर्शनाभाव एव प्रसक्तः, असदेतत् ; यतो यदि 'अशब्दकमर्थं विकल्पो नावगच्छति' इत्यभ्युपगम्येत तदा स्यादयं दोषः; न चास्माभिः शब्दसंयोजितार्थग्रहणं विकल्पोऽभ्युपगम्यते किं तर्हि ? निरंशक्षक्षणिकानेकपरमाणुविलक्षणस्थिरस्थूरार्थग्रहणम् । तच्च प्रथमाक्षसन्निपातवेलायामप्यनुभूयते । तथा, १-व्यतिरेकत्वा न वि-हा० वा. बा० ।-व्यतिरेकत्वेन वि-आ० वि० । व्यतिरेकाच्च नर्वि-भा० । अत्र 'अर्थादिव्यतिरेकाच्च न विकल्पव्यतिरेक एव तत्समानजातीयानामतीतादिविकल्पाना-' इति पाठः संभाव्यते। २ तकार्य-भां० मां। ३-क्षजस्य भां० मां० । ४-कल्पे वै-भां० मां० विना। ५ सर्वत्रात-बा. बा। ६-पि विदरा-भां० मां०। ७-णं भवति भां० मां. विना। ८-पाद्यते वि०। ९-त विकल्पयोर्ल-आ० वा. बा०। १०-वृत्तिवैकल्प-वा० बा० हा०। ११-सक्तेः वि०। १२ परस्य व्यति-वा. बा०। १३-पलक्षणोपलक्षणसद्भा-भां• मां०। १४-भावः आ०। १५-दृश्याद्विकल्पाद्वि-हा०।-दृश्याद्विकल्पयोर्मेवा० बा० वि० । १६ सादृश्ये नीलाकारज्ञान-वा० बा० हा०। १७ तन्न वि-वा० बा०। १८-स्मा सत्यआ० वि०। १९ “सति ह्यर्थदर्शनेऽर्थसन्निधौ दृष्टे शब्दे ततः स्मृतिः स्यात् अग्निधूमवत् । न चायमशब्दमर्थ पश्यति, अपश्यन् न शब्दविशेषमनुस्मरति, अननुस्मरन्न योजयति, अयोजयन्न प्रत्येति इत्यायातमान्ध्यमशेषस्य जगतः"-अनेका• पृ० १२२ पं०३। “न चायमित्यादि । न खल्वयं सविकल्पकप्रत्यक्षवादी शब्दरहितमर्थ पश्यति, खाभिधानविशेषणापेक्षा एवार्था विज्ञानैर्व्यवसीयन्त इति नियमात् । ततः को दोष इत्याह-अपश्यन् न शब्दविशेषमनुस्मरति 'नियमेन' इति शेषः" अनेका. टी. पृ० १२२ पं० २४ । "तथाहि-नीलादिकमर्थमनिरीक्षमाणस्तत्र प्रतिपन्नसमयं तद्वाचक शब्दं नानुस्मरत्युपयोगाभावात् , अननुस्मरश्च पुरश्चारिणि नीलादिवस्तुनि न तं संघटयति स्मृतिदर्पणप्रतिबिम्बनमन्तरेण तत्संघटनासामर्थ्यात्, असंघटयंश्च शब्दं त्वदाकूतेन न निरीक्षत एव नीलादिकमर्थमिति सुषुप्तप्राय जगजायेतेति"-स्याद्वादर० पृ. ३६ द्वि. पं०८। २० दृष्टा त-हा० वा० बा०। २१-चकस्मृ-वि.। २२-कल्पका बु-वा. बा. हा. वि०।-कल्पबुआ। २३ अशब्दकर्म पश्यति तदर्शनमन्तरेण च तद्वचस्मृतिः आ.। 'अशब्दं कर्म पश्यति तदर्शनमन्तरेण च न तत्स्मृतिः' वि० सं०। २४-ण न च वचन-भी० मां०। २५-ब्दसंयोगिता-वा० बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy