SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ शब्दार्थ-तत्संबन्धयोर्मीमांसा । २१३ अस्य तात्पर्यार्थः द्विविधो ह्यर्थः-बाह्यो बुद्ध्यारूढश्च । तत्र बाह्यस्य न परमार्थतोऽभिधानं शब्दैः, केवलं तदध्यवसायिविकल्पोत्पादनादुपचारादुक्तम् 'शब्दोऽर्थानाह' इति । उपचारस्य च प्रयो. जनं जात्यभिधाननिराकरणमिति । अवयवार्थस्तु-अन्यान्यत्वेन' इति अन्यस्मादन्यत्वं व्यावृत्तिस्तनान्यान्यत्वेन हेतुना करणेन वा ये वृक्षादयो भावा विशिष्टा निश्चिता अन्यतो व्यावृत्ता निश्चिता इति यावत् ; एतेन 'अर्थान्तरनिवृत्तिविशिष्टान्' इत्यत्र पदे 'निर्वृत्ता' इति (निवृत्त्या' इति) ५ तृतीयार्थो व्याख्यातः । 'ध्वानः' इति शब्दः। यस्तु बुझ्यारूढोऽर्थस्तस्य मुख्यत एव शब्दैरभिधानम् । 'अयम्' इति ध्वानः । अर्थान्तरनिवृत्तिविशिष्टत्वं कथमेषां योजनीयमित्याशय 'निवृत्त्या विशिष्टत्वमुक्तमेषामनन्तरम्' इत्युक्तम् । एषामपि बुद्धिसमारूढानामनामन्यतो व्यावृत्ततया प्रतिभासनादित्यभिप्रायः। ___ ननु यदि न कश्चिदेव वस्त्वंशः शब्देन प्रतिपाद्यते तत् कथमुक्तमाचार्येण-"अर्थान्तरनिवृत्त्या १० कश्चिदेव वस्तुनो भागो गम्यते" [ ] इति, अर्थान्तरपरावृत्तदर्शनद्वारायातत्वात् बुद्धिप्रतिविम्बकमर्थान्तरपरावृत्ते वस्तुनि भ्रान्तैस्तादात्म्येनाऽऽरोपितत्वोच्चोपचाराद् 'वस्तुनो भागः' इति व्यपदिष्टम् । ननु चार्थान्तरनिवृत्तिर्वाद्यवस्तुगतो धर्मः; सा कथं प्रतिबिम्बाधिगमे हेतुभावं करणभावं वा प्रतिपद्यते येन निवृत्ता' इति (निवृत्त्या' इति) उच्यत इति, उच्यते; यदि हि विजातीयाद् व्यावृत्तं वस्तु न स्यात् तदा न तत्प्रतिविम्बकं विजातीयपरावृत्तवस्त्वात्मनाऽ-१५ ध्यवसीयते तस्मादर्थान्तरपरावृत्तेर्हेतुभावः करणभावश्च युज्यत एव । 'न चान्यरूपमन्यादृक् कुर्याद् ज्ञानं विशेषणम्' इत्यादावपि, यदि ह्यन्यव्यावृत्तिरेभावरूपा वस्तुनो विशेषणत्वेनाभिप्रेता स्यात् तदेतत् ( तदैतत् ) सर्व दूषणमुपपद्येत यावता वस्तुस्वरूपैवान्यव्यावृत्तिर्विशेषणत्वेनोपादीयते तेन विशेषणानुरूपैव विशेष्ये बुद्धिर्भवत्येव । तथाहि-अंगोनिवृत्तिर्यो गौरभिधीयते सोऽश्वादिभ्यो यदन्यत्वं तत्स्वभावैव२० नान्या; ततश्च यद्यप्यसौ व्यतिरेकेणागोनिवृत्तिः 'गौः' इत्यभिधीयते भेदान्तरप्रतिक्षेपेण तन्मात्रजिज्ञासायाम् तथापि परमार्थतो गोरात्मगतैव सा-यथाऽन्यत्वम् न हि अन्य (अन्यत्वं) नाम अन्यस्माद् वस्तुनोऽन्यत्-अन्यथा तद् वस्तु ततो भिन्नमित्येतन्न सिद्धयेत् । तस्मात् विशेषणभावेऽ १-र्थः स द्वि-वि. कां०।-र्थः सिद्वि-आ. हा० । २ शब्दो नार्थोनाह वा० बा० । ३-नान्यत्वे-भां० मां कां० विना। ४-ना कारणे-वा. बा०। ५ पृ० २१२ पं० २० । ६-शिष्टमित्य-वा. बा०। ७ ""निवृत्त्या' इति तृतीयार्थो व्याख्यातः"-तत्त्वसं० पजि० पृ० ३३३ पं० ५। ८ “अथार्थान्तरनिवृत्तिविशिष्टत्वम्"-तत्त्वसं० पजि० पृ० ३३३ पं० ११। ९ पृ० २१२ पं० २८। १०-त्यपि भि-वा० बा० । ११ “अर्थान्तरपरावृत्त्या गभ्यते तस्य वस्तुनः । कश्चिद् भाग इति प्रोक्तं तदेव प्रतिबिम्बकम् ॥ “अर्थान्तरपरावृत्तवस्तुदर्शनसंश्रयात् । आगतेस्तत्र चारोपात् तस्य भागोऽपदिश्यते" ॥ "हेत्वर्थः करणार्थश्च पूर्ववत् तेन वाऽऽत्मना । यदि वस्तु विजातीयान स्याद् भिन्नं न तत् तथा" ॥ तत्त्वसं० का० १०७२-१०७३-१०७४ पृ. ३३३ । १२-त्वाद्वापचा-वा० बा०। १३ न चा-वा० बा० । १४-भावं कारण-वा. बा. कां. विना। १५भां० मां० वा. बा० विना। १६-वृत्तोत्यु-वा० बा० । १७-वसीयेत भां० मां०। १८-श्व प्रयु-वा. बा० । १९ पृ० १९२ पं० ९-२२ तथा ३३ । २० "अगोनिवृत्तिरन्यत्वं तस्य चात्मगतैव सा । भेदोक्तावप्यभावस्तु केवलो न निवर्तते" ॥ "तद्विशेषणभावेऽपि वस्तुधीन विहीयते । कल्पनानिर्मितं चदमभेदेऽपि विशेषणम्" ॥ "सोऽपकृष्य ततो धर्मः स्थापितो भेदवानिव । येन दण्डादिवत् तस्य जायते हि विशेषणम्" ॥ तत्त्वसं. का. १०७५-१०७६-१०७७ पृ. ३३४ । २१ "यदि ह्यन्यव्यावृत्ति वरूपा वस्तुनो विशेषणत्वेनाभिप्रेता स्यात् तदैतत्"-तत्त्वसं० पजि. पृ. ३३४ पं० १५। २२ "अगोनिवृत्तिर्या गोरभिधीयते साऽश्वादिभ्यः"-तत्त्वसं० पजि. पृ. ३३४ पं० १७। २३-यते साश्वा-वा० बा० । २४-भावेव वा. बा०। २५ यदप्य-वा. बा. हा०वि०। यदिप्य-आ०। २६-तो गौरा-आ० हा० कां. विना। २७-त्वम् नामान्यस्मा-मां० विना । “यथाऽन्यत्वम्, न हि अन्यत्वं नाम अन्यस्माद् वस्तुनोऽन्यत्"तत्त्वसं० पजि. पृ. ३३४ पं० २०। २८-न्यद स्तु ततो वा० बा०।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy