SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २१० प्रथमे काण्डे यथोक्तम् "संसृज्यन्ते ने भिद्यन्ते स्वतोऽर्थाः पारमार्थिकाः। रूपमेकमने वा तेषु बुद्धरुपप्लः" ॥ [ ] इति। येञ्चोक्तम्-'न चाप्रसिद्धसारूप्य'-इत्यादि । ५तत्र "एकधर्मान्वयासत्त्वेऽप्यपोह्याऽपोहगोचराः।। वैलक्षण्येन गम्यन्तेऽभिन्नप्रत्यवमर्शकाः” ॥ [ तत्त्वसं० का० १०५० ] अपोह्याश्च अपोहगोचराश्चेति विग्रहः। तत्रापोह्या अश्वादयः गोशब्दस्य तदपोहेन प्रवृत्तत्वात्, अपोहगोचराः शाबलेयादयः तद्विषयत्वाद् अगोपोहस्य; तेन यद्यप्येकस्य सामान्यरूपस्यान्वयो १० नास्ति तथाप्यभिन्नप्रत्यवमर्शहेतवो ये ते प्रसिद्धसारूप्या भवन्ति, ये तु विपरीतास्ते विपरीता इति । स्यादेतत् तस्यैवैकप्रत्यवमर्शस्य हेतवोऽन्तरेण सामान्यमेकं कथमा भिन्नाः सिद्ध्यंन्ति ? उच्यते "एकप्रत्यवमर्श हि केचिदेवोपयोगिनः। प्रकृत्या 'भेदवन्तोऽपि नान्य इत्युपपादितम्" ॥ [ तत्त्वसं० का० १०५१] प्रतिपादितमेतत् सामान्यपरीक्षायाम्-'यथा धात्र्यादयोऽन्तरेणापि सामान्यमेकार्थक्रियाका१५रिणो भवन्ति तथैकप्रत्यवमर्शहेतवो भिन्ना अपि भावाः केचिदेव भविष्यन्ति' इति। 'न चान्वयविनिर्मुक्ता' इत्यादीवाह-यद्यपि सामान्य वस्तुभूतं नास्ति तथापि विजातीयव्यावृत्तस्वलक्षणमात्रेणैवान्वयः क्रियमाणो ने विरुध्यते । "यस्मिन्नधूमतो भिन्नं विद्यते हि स्वलक्षणम् । तस्मिन्ननग्नितोऽप्यस्ति परावृत्तं स्वलक्षणम्" ॥ "यथा महानसे वेहें विद्युतेऽधूमभेदि तत् । तस्मादनग्नितो भिन्नं विद्यतेऽत्र स्वलक्षणम्" ॥ [ तत्त्वसं० का० १०५३-१०५४] अवयवपञ्चकमपि स्वलक्षणेनान्वये क्रियमाणे शक्योपदर्शनमित्येवं प्रयोगप्रदर्शनं कृतम्, इदं च कार्यहेतावुदाहरणम् । स्वभावहेतावपि-यद् असतो व्यावृत्तं स्खलक्षणं तत् सर्व स्थिरादपि व्यावृत्तम् , यथा बुझ्यादि, तथा चेदं शब्दादि स्खलक्षणमसद्रूपं न भवतीति । अमुना न्यायेन विशे १ संयुज्यन्ते भां० मां० । २ न विद्य-वि० । ३-षु बुद्धिरूप-वा० बा० ।-षु वृद्ध रूप-मां० । -षु वृद्धरुप-भां०। ४ तत्त्वसं० पजि० पृ. ३२८ पं० २१। शास्त्रवा० स्याद्वादक० पृ. ४०३ प्र. पं० १०। ५ यथोक्तं नवा बा०। ६ पृ. १८९ पं० १३ तथा ३५ । ७-यत्वाऽगो-हा० ।-यत्वात् गो-आ० । -यत्वाद् गो-वि०। ८ तस्यैकैक-वा० बा० । ९-ध्यन्ति एक-वा० बा० । १० “भेदवत्त्वेऽपि"-तत्त्वसं०। ११ पृ. २०२ पं०४ तथा २३ । १२ तत्त्वसंग्रहे सामान्यपरीक्षा पृ० २३६-२६२ का ७०८-८१२। १३ “यथा धाच्यभयादीनां नानारोगनिवर्तने । प्रत्येकं सह वा शक्तिर्नानात्वेऽप्युपलभ्यते"॥ "एवमत्यन्तभेदेऽपि केचिन्नियतशक्तितः । तुल्यप्रत्यवमर्शादेहेतुत्वं यान्ति नापरे ॥ तत्त्वसं० का० ७२३-७२६ पृ० २३९ । १४ नवा-वा. बा. भां० मां०। १५ पृ० १८९ पं० २० तथा ४२। १६ "अतद्रूपपरावृत्तं वस्तुमानं खलक्षणम् । यत्नेन क्रियमाणोऽयमन्वयो न विरुध्यते"॥ तत्त्वसं. का. १०५२ पृ. ३२९ । १७ “न विरुध्यते। कथम् ? इत्याह"-तत्त्वसं० पञ्जि. पृ. ३२९ पं० १५-१६। १८ "चेह"-तत्त्वसं०। १९-धते धूम-आ० हा० वि० । २० "असतो नरशृङ्गादेर्यच्च भिन्नं खलक्षणम् । बुद्धि-दीपादिवत् सर्व व्यावृत्तं तत् स्थिरादपि"। "असदूपं तथा चेदं न शब्दादिखलक्षणम् । इत्थं निर्दिष्टभेदेन भवत्येवाऽन्वयोऽमुना" ॥ तत्त्वसं० का० १०५५-१०५६ पृ. ३२९ । २१-वतीत्यनुमा नायेन वा० बा० ।-तीत्यमुना नायेन आ० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy