SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ प्रथमे काण्डे - अदृष्टत्वात् न ह्यदृष्टेष्वतीतादि मेदभिन्नेष्वनन्तेषु मेदेषु समयः संभवति अतिप्रसङ्गात् । विकल्पबुद्ध्य व्या( Sध्या) हृत्य तेषु तत्प्रतिपत्त्याभ्युपगमे विकल्पसमारोपितार्थविषय एव शब्दसङ्केतः प्राप्तः । तथाहिअतीतानागतयोरसत्त्वेनासन्निहितत्वात् तत्र विकल्पबुद्धिर्भवन्ती निर्विषयैध, तत्र भवन् समयः कथं परमार्थवस्तुविषयो भवेदिति ? सपक्षे भावाद् नापि हेतोर्विरुद्धतेति सिद्धं स्वलक्षणाविषयत्वं ५ शब्दानाम् । १७६ अथ स्थिरैकरूपत्वाद्धिमाचलादिभावानां देशादिभेदाभावात् सङ्केतव्यवहार- कालव्यापकत्वेन समय संभवात् पक्षैकदेशासिद्धता प्रकृतहेतोः, नैतत्; हिमाचलादीनामप्यनेकाणुप्रचयस्वभावतया उदयानन्तरापवर्गितया च नाशेषावयवपरिग्रहेण समयकालपरिदृष्टस्वभावस्य व्यवहारकालानुयायित्वेन च समयः संभवतीति नासिद्धता हेतोः । अत उक्तन्यायेन समयवैयर्थ्यप्रसङ्गान्न स्वलक्षणे समयः १०] संभवति । अशक्यक्रियश्वाश्च न तत्र समयः । तथाहि उदयाऽनन्तरापवर्गिषु भावेषु समयः क्रियमाणः अनुत्पन्नेषु वा क्रियेत, उत्पन्नेषु वा ? न तावदनुत्पन्नेषु परमार्थतः समयो युक्तः, असतः सर्वोपाख्यारहितस्याधारत्वानुपपत्तेः, अपारमार्थिकवस्त्वजातेऽपि पुत्रादौ समय उपलभ्यत इति न दृष्टविरोधः, विकल्पनिर्म्मितार्थविषयत्वेन तस्यापारमार्थिकत्वात् । नाप्युत्पन्ने समयो युक्तः, तस्मिन्ननुभवोत्पत्तौ १५ तत्पूर्वके च शब्दभेदस्मरणे सति समयः संभवति नान्यथा - अतिप्रसङ्गात् - शब्दभेदस्मरणकाले च चिरनिरुद्धं स्वलक्षणमिति अजातवज्जातेऽपि कथं समयः समयक्रियाकाले द्वयोरप्यसन्निहितत्वात् ! तथाहि भनुभवावस्थायामपि तावत् तत्कारणतया खलक्षणं क्षणिकं न सन्निहितसत्ताकं भवति किं पुनरनुभवोत्तरकालभाविनामभेदाभोगस्मरणोत्पादकाले भविष्यति ? नापि तजातीये तत्सामर्थ्यबलोपजाते समयक्रियाकालभाविनि क्षणे समयः सम्भवति, तस्याऽ२० न्यत्वात् । यद्यपि समयक्रियाकाले सन्निहितं क्षणान्तरमस्ति तथापि तत्र समयाभोगासम्भवान्न समयो युक्तः; न ह्यश्वमुपलभ्य तन्नामस्मरणोपक्रमपूर्वकं समयं कुर्वाणस्तत्कालसन्निहिते गवादावाभोगाविषयीकृते 'अश्वः' इति समयं समयकृत् करोति । अथापि स्यात् सर्वेषां स्वलक्षणानां सादृश्यमस्ति तेनैक्यमध्यवस्य समयः करिष्यते, असदेतत्; यतो विकल्पबुद्ध्याऽभ्यारोपितं सादृश्यम्, तस्य ध्वनिभिः प्रतिपादने स्वलक्षणमवाच्यमेवेति न स्वलक्षणे समयः । १- षु सम-भां० मो० विना । २ " विकल्पबुद्धधा व्याहृत्य तेषु" -तत्त्वसं० पजि० पृ० २७८ पं० १८ । “विकल्पबुद्धावभ्याहृत्य तेषु संकेताभ्युपगमे विकल्प समारोपितार्थविषय एव शब्दसंकेतः" - प्रमेयक० पृ० १२८ द्वि० ०१२ | ३ अत्र 'तत्प्रतिपत्यभ्युपगमे' इति पाठः सुचारुः, वि० प्रतावपि तथैव संशोधितो दृष्टः । ४- वतीति नि - वि० गु० कां० डे० । ५ " हिमाचलादयो येsपि देश - कालाद्य मेदिनः । (दृष्टास्तेष्वणवो भिन्नाः ) क्षणिकाश्च प्रसाधिताः " ॥ तत्त्वसं० का० ८७५ पृ० २७८ । ६ " अशक्यं समय (स्यास्य जातेऽजाते च कल्पनम् । ) नाऽजाते समयो युक्तो भाविकोऽश्वविषाणवत्” ॥ तत्त्वसं० का० ८७६ पृ० २७९ । ७ वस्तु जा - भ० मां० । ८ “उप(नापि ? )जाते गृहीता (नां पूर्वं ) वाचामनुस्मृतौ । क्रियते समयस्तत्र चिरातीते ( कथं नु तत्)” ॥ तत्त्वसं० का० ८७७ पृ० २७९ । ९ "यश्वापि ( तत्सजातीयस्तद्व ) लेन तदापरः । न तत्र समयाभोगः सादृश्यं च विकल्पितम्” ॥ तत्त्वसं ० का ० ८७८ पृ० २७९ । १०- मयः भां० मौ० विना ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy