SearchBrowseAboutContactDonate
Page Preview
Page 209
Loading...
Download File
Download File
Page Text
________________ संमति - तर्कप्रकरणम् । द्वितीयो विभागः । द्वितीयगाथाव्याख्या | [ आदिवाक्योपन्याससमीक्षा ] एवमिष्टदेवतानमस्कारकरणध्वस्त प्रकरणपरिसमाप्तिविबन्धकृत्क्लिष्टकर्म्मान्तरायः सूरिर्जिनप्र- ५ जीतत्वेन शासनस्य प्रकरणमन्तरेणापि स्वतः सिद्धत्वात् तदभिधेयस्य निष्प्रयोजनतामाशङ्कमानः 'समयपरमत्थ' इत्यादिगाथासूत्रेण प्रकरणाभिधेयप्रयोजनमाह समयपरमत्थवित्थरविहाडजणपज्जुवासणसर्यन्नो । आगममलारहियओ जह होइ तमत्थमुन्नेसुं ॥ २ ॥ तदेव चास्या गाथायाः समुदायार्थः । तच्च श्रोतृप्रवृत्यर्थम् प्रयोजनस्य प्रतिपत्तिमन्तरेण प्रेक्षा १० वतां प्रवृत्यनुपपत्तेः अनभिहितप्रयोजनस्य शास्त्रस्य प्रेक्षापूर्वकारिभिः काकदन्त परीक्षादेरिवानाश्रयणीयत्वात् । अतः प्रयोजनप्रदर्शनेन तेषां प्रवर्त्तनाय शास्त्रस्यादौ वाक्यं तत्प्रतिपादनपरमुपादेयम् । तदुक्तम्"सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत् प्रयोजनं नोक्तं तावत् तत् केन गृह्यते” ॥ [ श्लो० वा० सू० १ लो० १२] १५ पुनरप्युक्तम् "अनिर्दिष्टफलं सर्व न प्रेक्षापूर्वकारिभिः । शास्त्रमाद्रियते तेन वोच्यमग्रे प्रयोजनम्" ॥ [ "शास्त्रस्य तु फैले दृष्टे तत्प्रास्याशावशीकृताः । प्रेक्षावन्तः प्रवर्त्तन्ते तेन वाच्यं प्रयोजनम्" ॥ [ "यावत् प्रयोजनेनास्य सम्बन्धो नाभिधीयते । 1 ] २० असम्बद्धप्रलापित्वाद् भवेत् तावदसङ्गतिः ॥ [ श्लो० वा० सू० १ श्लो० २०] "तस्माद् व्याख्याङ्गमिच्छद्भिः सहेतुस्स प्रयोजनः । शास्त्रावतारसम्बन्धो वाच्यो नान्यस्तु निष्फलैः " ॥ [श्लो० वा०सू० १ श्लो० २५ ] २५ इत्यादि । [ पूर्वपक्ष:--- आदिवाक्योपन्यासस्य वैयर्थ्य प्रदर्शनम् ] मैत्रच केचित् प्रेरयन्ति-यदि प्रेक्षावतां प्रवृत्त्यर्थे प्रयोजनप्रतिपादनाय आदिवाक्यमुपादी १- यण्हो गु० मूले । २ होति गु० मूले । ३-मुन्नेसु कां० आ० वि० विना । अत्र 'उन्नेष्ये' इतिटीकाकारप्रदर्शितव्याख्यानुरोधेन ‘'उन्नेस्सं' इति स्यात् । लेखकभ्रमकल्पनायां तु 'उन्नेमु' इति स्यात् यतो नास्ति प्राकृतप्रक्रियायामस्मत्पुरुषैकवचने 'सुं'प्रत्ययः 'सु' प्रत्ययो वा 'मु' प्रत्ययस्तु वर्तमानाबहुवचने, विध्याज्ञयोश्चैकवचने वर्तत एव । ४ - जनप्रतिभां०] मां० | ५-रिव नाश्रय-भां० मां० वा० बा० विना । ६-प्रदर्शने तेषां कां० गु० वा० वा० । ७ इदमेकमेव पर्यं दृश्यते हेतु० टी० ता० लि० पृ० १ प्र० पं० ५ । ८ तत्वेन भां० वा० बा० । ९ वाद्यम-आ० गु० भा० डे० । १०-ले ज्ञाते त- भ० मां० । एवमेव दृश्यते प्रमेयक० पृ० १ द्वि० पं० ५, स्याद्वादर० पृ० ७ प्र० पं० १४ । ११ एतानि पश्चापि पयानि प्रमेयक० पृ० १ द्वि० पं० ४-७ द्रष्टव्यानि । १२ अत्र केचित् वा० भा० । स० त० २२
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy