________________
संपादकीयं निवेदनम्
संमतितर्कस्य प्रथमं भागं प्रकाश्य वर्षद्वयेनाद्य द्वितीय भागं प्रकाशयितुं वयं पुनर्लब्धावसरा भवामः । सटीकया द्वितीयया तृतीयया चतुर्थ्या च गाथयाऽयं भागो भूषितः ।।
अशुद्धिबाहुल्यम् नव्यसाधनोपयोगः अपरश्च विशिष्टः प्रयत्न इत्येतद् विशेषतात्रयं प्रस्तुतसंपादनगतं सविशेषमत्र समुल्लेखनीयं प्रतिभाति ।
यद्यपि द्वितीय-तृतीययोर्द्वयोरपि गाथयोष्टीका विस्तारवती तथापि द्वितीयस्याष्टीका तृतीयामपेक्ष्य द्विगुणप्राया विद्यते । अशुद्धिवृद्धिष्टीकाविस्तारवृद्धिमनुगच्छन्ती लक्ष्यते । तत्रापि बौद्धादिदर्शन. वत्सु चर्चास्थलेषु भूयस्योऽशुद्धयो दृश्यन्ते । सर्वथा विश्वस्ततया मुद्रणकर्मणि मूलाधारत्वेन स्थापयितुं योग्यः संमतेरेकोऽप्यादर्शोऽस्माभिरिदानीं यावत् नावापि । सर्वेषामादर्शानामशुद्ध्या समानतामवलोक्य प्रन्थस्यास्याध्ययनाऽध्यापनयोश्चिरादेव विच्छिन्नप्रायत्वं यथावत् संशोधनप्रयासाभावं च कल्पयामः । जातस्यापि तादृशस्य पूर्वप्रयासस्य फलं नेदानीमुपलब्धिगोचरीभवति । असंस्कृतवाचक-लेखक-पाठकानां वाचन-लेखनार्थकल्पनागोचरा भ्रान्तयः सर्वेष्वप्यादर्शेषु नानाविधतया दृष्टिपथमायान्ति । अत एव बहुतरसमयव्ययेन कृतस्यापि द्वितीयगाथाटीकासंशोधनस्य पूर्व यथावत् संतोषाजनकतया विशिष्य संशोधनयोग्यानि साधनानि गवेषयितुं प्रवृत्तवतामस्माकं दृष्टिपथमेको महान् ग्रन्थः समापतितः । _स च प्रन्थो बौद्धाचार्य-आर्यशान्तिरक्षितकर्तृकस्तत्त्वसंग्रह एव नापरः कश्चित् । तत्त्वसंग्रहावलोकनेन द्वितीयगाथाटीकागतबौद्धमताश्रितपूर्वपक्षांशस्य बौद्धाचार्यकमलशीलकृतया तत्त्वसंग्रहपञ्जि. कया प्रायेणाक्षरशो बिम्बप्रतिबिम्बभावं परिज्ञाय संमति-तत्त्वसंग्रहवृत्त्योस्तावतोरंशयोस्सर्वात्मना तुलना व्यधायि। अशुद्धं भागं शोधयितुम् अपराननेकान् विशेषान् अन्तःसंस्कर्तुं च विशिष्टः प्रयत्नोऽपि प्रारम्भि।
तत्त्वसंग्रहस्योपलब्ध्युपयोगावेव अस्मिन् संशोधनगोचरे विशिष्टप्रयत्ने निमित्ततामुपगतौ । तृतीयगाथाटीकागतस्य सांख्यमतनिरूपण-तत्खण्डनात्मकस्य कियन्मात्रस्य अंशस्य कमलशीलीयपजिकाप्रतिबिम्बप्रायत्वेन परिज्ञानादपि संशोधनकर्मण्यनेकधा तत्त्वसंग्रहोपयोगकल्पना तदनुसारी च प्रयत्नोऽजनिष्ट । तदेव च विलम्बद्वैगुण्यनिमित्तम् । तथापि वयमाशास्महे नैष विलम्बः परिणामदर्शिनां शल्यायिष्यते। तत्त्वसंग्रहोपयोगप्रकारोऽप्यत्रैव प्रदर्शयितुं समुचित आवश्यकश्व भाति ।
शुद्धिविधानेन, संमतिटीकागततत्तद्गद्यांशसम्बन्धिमूलकारिकाप्रदर्शनेन, तत्त्वसंग्रहान्तःप्रविष्टपूर्वाचार्यकर्तृककारिकासत्कग्रन्थ-तद्गतस्थलसंसूचनेन च प्रधानतया त्रेधा तत्त्वसंग्रहोऽत्रोपयोजितः ।
अशुद्धं त्रुटितं वा संमतिटीकांशं कोष्ठके शोधयित्वा पूरयित्वा वा तत्संवादायावश्यकः पञ्जिकांशोऽधस्तात् टिप्पणिकायामक्षरशो निर्दिष्टः। यथा-पृ० १७४ टिप्पणं २। पृ० १८१ टिप्पणं१६ प्रभृति।
संमत्यभ्यासिनः शब्दशोऽर्थशश्च संमति-तत्त्वसंग्रहयोस्तुलनां कर्तुं तत्त्वसंग्रहाभ्यासिनश्च स्वापेक्षितं स्थलं संमतिटीकातोऽनायासेनावाप्तुं शक्नुयुरित्युद्दिश्य संमतिटीकागतः कस्कोऽशः कस्याः कस्यास्तत्त्वसंग्रहकारिकाया व्याख्यात्मक इति प्रदर्शनाय तत्तद्गद्यांशस्याधस्तात् टिप्पणिकायां तत्त्वसंग्रहीया मूलकारिका क्रमाङ्कपुरःसरं निरदेशि । यथा-पृ० १७३ टिप्पणं ९ प्रभृति ।
तत्त्वज्ञा अभ्यासिनस्तत्तन्मूलकारिकायाः कर्तारम् आधारभूतां कृतिम् प्रकरणं च यथावदवगन्तुम् ऐतिहासिकाश्च तं क्रमं कालनिर्णयायोपयोक्तुं पारयेयुरित्युद्दिश्य पूर्वाचार्यान्तरकर्तृकाः कारिका मूलत