SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ १५२ प्रथमे काण्डेभ्युपगमे तदपहन्तुहिंसाफलं न स्यात् । तथाहि-प्रतिबन्धविघातकृदुपकारक एवेति दृष्टान्तेन नित्यसुखसंवेदनप्रतिबन्धकस्य शरीरादेर्हन्तुर्हि साफलस्याभावः। अथानित्यं तत्संवेदनं तदा तदवस्थायां तस्योत्पत्तिकारणं वाच्यम् । अथ योगजधर्मापेक्षः पुरुषान्तःकरणसंयोगोऽसमवायिकारणम् , न; योगजधर्मस्याप्यनित्यतया विनाशे अपेक्षाकारणाभा. ५वात् । अथाद्यं योगजधर्मादुपजातं विज्ञानमपेक्ष्योत्तरं विज्ञानं तस्माच्चोत्तरमिति सन्तानत्वम्, तन्न प्रमाणाभावात् । तथा च शरीरसम्बन्धानपेक्षं विज्ञानमेवात्मान्तःकरणसंयोगस्यापेक्षाकारणमिति न दृष्टम्; न च दृष्टविपरीतं शक्यमनुज्ञातुम् । आकस्मिकं तु कार्य न भवत्येव । अथ मतम्-शरीरादिरहितस्यापि तस्यामवस्थायां योगजधर्मानुग्रहात् सुखसंवेदनमुत्पद्यते । तथाहिमुमुक्षुप्रवृत्तिरिष्टाधिगमार्था, प्रेक्षापूर्वकारिप्रवृत्तित्वात्, कृषीबलादिप्रेक्षापूर्वकारिप्रवृत्तिवत्, एवम् १० तेषां शास्त्रीय उपदेश इटाधिगमार्थः, उपदेशत्वात्, तदन्योपदेशवत्, तदेतत् प्रतिपादितम्"नोभयमनर्थकम्" [ ] इति, मोक्षसुखसंवेदनानभ्युपगमे प्रवृत्त्युपदेशयोर्न किञ्चित् फलं भवेत्, एतच्चायुक्तम्; प्रवृत्त्युपदेशयोरन्यथासिद्धत्वात् । भवेत् साध्यसिद्धिर्यथोक्ता तुद्वयात् यद्येकान्तेनैव प्रवृत्तेरुपदेशस्य च इष्टाधिगमार्थत्वं भवेत्, तयोस्त्वन्यथाऽपि दर्शनात् नाभिमतसाध्यसाधकत्वम् । तथाहि-आतुराणां चिकित्साशास्त्रार्थानुष्ठायिनामनिष्टप्रतिषेधार्था प्रवृत्तिदृश्यते उपदे. ५शश्च, अतः कथमिष्टप्राप्त्यर्थता प्रवृत्त्युपदेशयोः ? किञ्च, इष्टानिष्टयोः साहचर्यमवश्यम्भावि, अतो यदीष्टाधिगमार्था प्रवृत्तिस्तदा बलात् तस्यामवस्थायामनिष्टसंवेदनमापतति, न हीष्टमनिष्टाननुषक्तं क्वचिदपि विद्यते । तस्मादनिष्टहानार्थायामपि प्रवृत्ताविष्टं हातव्यम्, तयोर्विवेकहानस्याशक्यत्वात् । किञ्च, दृष्टबाधश्च तुल्यः। तथाहि-यथा मुख्यवस्थायामनित्यं सुखमतिक्रम्य नित्यमुपेयते प्रमाणशून्यं तद्विरुद्धं च तथा शरीरादीन्यपि नित्यसुखभोगसाधनानि वरं कल्पितानि, एवं मुक्तस्य नित्यसुख२० प्रतिपत्तिः साध्वी स्यात् । अथ शरीरादीनां कार्यत्वात् कथं नित्यता प्रमाणबाधितत्वाच्छरीरादीनां नित्यत्वमशक्यं साधयितुम् ? नन्वेतत् सुखेऽपि समानम् , दृष्टस्य सुखस्योपजनाऽपायधर्मकस्य तद्वैकल्यं प्रमाणबाधितत्वात् कथं परिकल्पयितुं शक्यम् ? अथ स्यादेष दोषः यदि दृष्टस्यैव सुखस्य नित्यत्वमस्मामिरुपेयेत यावता दृष्टसुखव्यतिरिक्तमात्मधर्मत्वेनामिमतं नित्यं ततश्च कथं दृष्टविरोधः? असदेततः तत्र प्रमाणाभावादित्युक्तत्वात् । यदप्यनुमानं तत्सिद्धये प्रदेर्शितं तदपि प्रवृत्तेरनिष्ट२५प्रतिषेधार्थत्वाकान्तेनाभिमतसाध्यसाधकम् । मा भूदनुमानम् , आगमस्तु नित्यसुखसाधकस्तस्यामवस्थायां भविष्यति, तथा च पूर्वमुक्तम् "विज्ञानमानन्दं ब्रह्म" इति, असदेतत् तदागमस्यैतदर्थत्वासिद्धेः । अथापि कथञ्चिद् नित्यसुखप्रतिपादकत्वं तस्याभ्युपगम्यते तथाप्यात्यन्तिके संसारदुःखाभावे सुखशब्दो गौणः, न तु नित्यसुखप्रतिपादकत्वाद् मुख्यः । अथ कथं दुःखाभावे सुखशब्द उपेयते ? लोकव्यवहाराद्धि शब्दार्थ३० सम्बन्धावगमः, सुखशब्दश्च दुःखाभावे लोके अनवगतसम्बन्धः कथमागमे दुःखाभावं प्रतिपादयति ? नैष दोषः; न हि लोके मुख्य एवार्थे प्रयोगः शब्दानां किन्तु गौणेऽपि । तथाहि-दुःखाभावेऽपि सुखशब्दं प्रयुञ्जाना लोका उपलभ्यन्ते; यथा ज्वरादिसन्तप्ता यदा ज्वरादिभिर्विमुक्ता भवन्ति तदाऽभिदधति 'सुखिनः संवृत्ताः स्मः' इति । किञ्च, इष्टार्थाधिगमार्थायां च मुमुक्षोः प्रवृत्तौ रागनिबन्धना तस्य प्रवृत्तिर्भवेत् ततश्च न मोक्षावाप्तिः, क्लेशानां बन्धहेतुत्वात् । ३५ अथ वदेत् यथा सुखरागनिबन्धनायां प्रवृत्तौ रागस्य बन्धनहेतुत्वाद् मोक्षाभाषस्तथा दुःखा भावार्थायामपि, तत्रापि दुःखे तत्साधने वा दोषदर्शनाद् द्विष्टस्तदभावाय प्रवर्तते । यथा च रागक्लेशो बन्धनहेतुस्तथा द्वेषोऽपीत्यविशेषः। यच्चोक्तम् 'दुःखाभावे सुखशब्दप्रयोगात् तदभाव एव सुखम् तदयुक्तम् युगपत् सुख-दुःखयोरनुभवात् यथा ग्रीष्मे सन्तापतप्तस्य क्वचिच्छीते हृदे निमग्नार्द्धकायस्याः निमग्ने सुखमन्यत्र दुःखम् । अथ मतम्-यत् तदर्थे निमग्ने तद् दुःखाभावः ४० सुखम् अन्यत्र दुःखमिति, तर्हि नारकाणां सुखित्वप्रसङ्गः, क्वचिन्नरके दुःखानुभवादन्यनरकसम्बन्धि दुःखाभावाच्च । तथा, अनेकेन्द्रियद्वारस्य दुःखस्य केनचिदिन्द्रियेण दुःखोत्पादेऽन्येनाजनने सुखित्व १-कशरी-भा०, मां०, वा०, बा० । २ वा. भा० अ० १, आ० १, सू० २२ । ३-त्यसुखप्रतिपत्तिरूपेवि० गु०। ४ पृ० १५१ पं० २५। ५ प्र. पृ० पं०९। ६ पृ० १५१ पं० ११। ७ प्र. पृ. पं० ३१ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy