SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ आत्मपरिमाणवादः। १४९ तदात्मा सर्वगतो निजदेहैकदेशवृत्तिर्वा स्यात् अविरोधात् सन्दिग्धविपक्षव्यावृत्तिकत्वादनका. न्तिको हेतुः इति युक्तम् । वाय्वादावपि तथाभावप्रसङ्गतः प्रतिनियतदेशसम्बद्धपदार्थव्यवहारोच्छेदप्रसक्तेः। तथाहि-यद् यथा प्रतिभाति तत् तथैव सद्व्यवहारपथमवतरति, यथा प्रतिनियत देश कालाऽऽकारतया प्रतिभासमानो घटादिकोऽर्थः, अन्यथा प्रतिभासमाननियतदेश कालाss रस्पर्शविशेषगुणोऽपि वायुः सर्वगतः स्यात्। न चात्र प्रत्यक्षबाधः, परेण तस्य परोक्षत्वोपवर्णनात्। ५ यदि च स्वदेहैकदेशस्थितः, कथं तत्र सर्वत्र सुखादिगुणोपलब्धिः ? इतरथा सर्वत्रोपलभ्यमानगुणोऽपि वायुरेकपरमाणुमात्रः स्यात् । न च क्रमेण सर्वदेहभ्रमणात् तस्य तथा तत्रोपलब्धिः, युगपत् तत्र सर्वत्र सुखादेर्गुणस्योपलम्भात् । न चाशुवृत्तेर्योगपद्यामिमाना, अन्यत्रापि तथाप्रसक्तेः-शक्यं हि वक्तुं घटादिरप्येकावयववृत्तिः आशुवृत्तेयुगपत् सर्वेष्ववयवेषु प्रतीयते इति । अत एव सौगतोऽपि तत्रैकं निरंशं ज्ञानं कल्पयन्निरस्तः, प्रत्यवयवमनेकसुखा-१० दिकल्पने सन्तानान्तरवत् परस्परमसक्रमात् अनुस्यूतकप्रतीतिविलोपः 'सर्वत्र शरीरे मम सुखम्' इति । अथ युगपद्भाविभिरेकशरीरवर्तिभिरनेकनिरंशक्षणिकसुखसंवेदनैरेकपरामर्शविकल्पजननादयमदोषः, असदेतत्; अनेकोपादानस्य परामर्शविकल्पस्यैकत्वसम्भवे चार्वाकाभिमतैकशरीरव्यपदेशभागनेकपरमाणूपादानानेकविज्ञानभावेऽपि तद्विकल्पसम्भवात् । ततो यदुक्तं धर्मकीर्त्तिना तं प्रति "अनेकपरमाणूपादानमनेकं चेद् विज्ञानं सन्तानान्तरवदेकपरामर्शा-१५ भावः" [ ] इति, तत् तस्य न सुभाषितं स्यात्। यच्च 'सावयवं शरीरम् प्रत्यवयवमनुप्रविशंस्तदात्मा सावयः स्यात्, तथा, पटवत् समानजातीयारब्धत्वाच्च तद्वद् विनाशवांश्च स्यात्' इति, तदपि न सम्यक् घटादिना व्यभिचारात्घटादिर्हि सावयवोऽपि न तन्तुवत् प्राक्प्रसिद्धसमानजातीयकपालसंयोगपूर्वकः, मृत्पिण्डात् प्रथममेव स्वावयवरूपाद्यात्मनः प्रादुर्भावादिति निरूपयिष्यमाणत्वात् । अपि च, यदि तदात्मनः२० कथञ्चिद्विनाशः प्रतिपादयितुमिष्टः समानजातीयावयवारब्धत्वात् तदा सिद्धसाधनम्, तदर्भिप्रसंसार्यवस्थाविनाशेन तद्रूपतया तस्यापि नष्टत्वात् । अथ सर्वात्मना सर्वथा नाशः, स घटादावप्यसिद्ध इति साध्य विकलो दृष्टान्तः। यदि च तदहर्जातबालात्मा प्रागेकान्तेनाऽसंस्तथाऽवयवैरा. रभ्येत तदा स्तनादौ प्रवृत्तिर्न स्यात्, तदभिलाष-प्रत्यभिज्ञान-स्मरण-दर्शनादेरभावात् । तदारम्भकावयवानां प्राक्सतां विषयदर्शनादिकमिति चेत् तर्हि तेषामेव तदहर्जातवेलायां तन्वन्तरा-२५ णामिव तत्र प्रवृत्तिः स्यानात्मनः, स्मरणाद्यभावात् । कारणगमने तस्यापि सर्वत्र सा स्यात्, "कारणसंयोगिना कार्यमवश्यं संयुज्यते"[ ] इति वचनात् न तस्य विषयानुभवाभावः; भेदैकान्ते चास्याः प्रक्रियायाः समवायनिषेधेन निषेधात् । ___ अथ कारणगुणप्रक्रमेण तत्र दर्शनादयो गुणा वर्ण्यन्ते, तेऽपि प्रागसन्त एव जायन्त इति, एवमपि न किंचित् परिहृतम् । एतेन "अवयवेषु क्रिया, क्रियातो विभागः, ततः संयोगविनाशः,३० ततोऽपि द्रव्यविनाशः" [ ] इति परस्याकूतं पूर्वभवान्ते तथा तद्विनाशे आदिजन्मनि स्मरणाद्यभावप्रसङ्गान्निरस्तम्। न चायमेकान्तः-कटकस्य केयूरभावे कुर्तश्चिद् भागेषु क्रिया, विभागः, संयोगविनाशः, द्रव्यनाशः, पुनस्तदद्वयवाः केवलाः; तदनन्तरं कर्म-संयोगक्रमेण केयूरभावः प्रमाणगोचरचारी। केवलं सुवर्णकारव्यापारात् कटकस्य केयूरीभावं पश्यामः, अन्यथाकल्पने प्रत्यक्षविरोधः। न हि पूर्व विभागः ततः संयोगविनाश इति, तद्भेदानुपलक्षणाच्चैतन्य-बुद्धिवत् ।३५ १-म्बन्ध-वा०, बा० । २-भिरेव श-मां, भा०। ३-ज्ञानाभावे-मां०, भां०। ४-वः पट-कां०, आ० विना । अत्र स्थले प्रमेयक०मार्तण्डे एवं पाठः-“यदप्युक्तम् सावयवं शरीरम् प्रत्यवयवमनुप्रविशंस्तदात्मा सावयवः स्यात् तथा च घटादिवत् समानजातीयावयवारभ्यत्वम् , समानजातीयत्वं चावयवानामात्मत्वाभिसंबन्धादित्येकत्राऽऽत्मन्यनन्तात्मसिद्धि; यथा च अवयवक्रियातो विभागात् संयोगविनाशाद् घटविनाशस्तथाऽऽत्मविनाशोऽपि स्यात्"-पृ. १७६ प्र.. पं०४। ५-ध्यविकलता दृष्टान्तस्य आ०, कां०, गु०। ६ परिवृतम् । वा०, बा०। ७ परस्याकूतमेतत् प्रशस्तपादभाष्ये इत्थमुपवर्णितम्-"पार्थिवपरमाणुरूपादीनां पाकजोत्पत्तिविधानम्-घटादेरामद्रव्यस्याऽग्निना संबद्धस्य अभ्यभिघाताद्-तदारम्भकेष्वणुषु कर्माण्युत्पद्यन्ते, तेभ्यो विभागाः, विभागेभ्यः संयोगविनाशाः, संयोगविनाशेभ्यश्च कार्यद्रव्यं विनश्यति" -पृ. १८२ पं०१।८ तश्विद्भावेषु कि-भा०, वा०, बा० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy