SearchBrowseAboutContactDonate
Page Preview
Page 117
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः। प्रत्ययोः जनकः। न चैतद् भिन्नसन्तानादिति न तत्रानुसन्धानसंभवः । नन्वत्रापि समत्वं कार्येण यधुपादानत्वं प्रत्ययस्य तदा वक्तव्यम्-किं सर्वथा समत्वम् , उतैकदेशेन ? यदि सर्वथा तदसत, कार्य-कारणयोः सर्वथा तुल्यत्वे यथा कारणस्य प्रागभावित्वं तथा कार्यस्यापि स्यात् तथा च कार्य-कारणयोरेककालत्वादन कार्यकारणभावः, नोककालयोः कार्यकारणभावः सव्येतरगोविषाणवत । तथा, कारणाभिमतस्यापि स्वकारणकालता, तस्यापि स्वकारणकालतेति सकलसन्तानशू-५ न्यमिदानीं समस्तं जगत् स्यात् । अथ कथञ्चित् समानता, तथा सति योगिज्ञानस्याप्यस्मदादिज्ञानालम्बनस्य तदाकारत्वेनैकसन्तानत्वं स्यात्' इत्यादि दूषणं पूर्वोक्तमेवं । अथानन्तरत्वमुपादानत्वम् , ननु क्षणिकैकान्तपक्षे सर्वजगत्क्षणानन्तरं विवक्षितक्षणे जगद् जायत इति सर्वेषामुपादानत्वमित्येकसन्तानत्वं जगतः । देशानन्तर्य तत्रानुपयोगि, देशव्यवहितस्यापीहजन्ममरणचित्तस्य भाविजन्मचित्तोपादानत्वाभ्युपगमात् । प्रत्ययत्वं तु नोपादानत्वम् , सहकारित्वेऽपि प्रत्ययत्वस्य भावात् । तन्न समन-१० न्तरप्रत्ययत्वमप्युपादानत्वम् । 'न च प्रतिक्षणविशरारुषु भावेषु कथश्चिद् एकान्वयमन्तरेण जनकत्वमपि संगच्छते किमुतोपादानादिविभागः' इति क्षणभङ्गभङ्गप्रतिपादनावसरेऽभिधास्यामः। अत्र केचित् तुल्येऽपि जनकत्वे स्व-परसन्तानगतयोर्विज्ञानयोरुपादानत्वे कारणमाहुः-"स्वसन्ततौ चेतितं ज्ञानं ज्ञानान्तरजनकम्, न त्वेवं परसन्ततौ; अतो जनकत्वव्यतिरिक्तस्योपादानकारणत्वे निमित्तस्य संभवादित्थंभूताद्धेतुफलभावाद व्यवस्था" । अस्यापि व्यवस्थानिमित्तत्वमयुक्तम्, नहि १५ झानमंसंवेदितं व्यवस्थां लभते । संवेदनं हि ज्ञानानां स्वत एवेष्यते, तच्च स्वसन्ततिपतिते इव परसन्ततिपतितेऽपि तुल्यम् । ज्ञानान्तरवेद्यत्वं तु न शाक्यैरभ्युपगम्यते ज्ञानस्य नियमत इति नायमप्यतिप्रसङ्गपरिहारः । न च स्वसन्ततावपि स्वसंविदितज्ञानपूर्वकता ज्ञानस्य सिद्धा, मूर्छाद्यवस्थोत्तरकालभाविज्ञानस्य तथात्वानवगमात्; यतो विज्ञानपूर्वकत्वेऽपि तत्र विप्रतिपन्ना वादिनः कुतः पुनः संविदितज्ञानपूर्वकत्वम् ? तत्रैतत् स्यात्-विज्ञानपूर्वकत्वस्यानुमानेन निश्चयात् कथं विप्रतिपत्तिः?२० तश्च दर्शितम् 'तजातीयात् तजातीयोत्पत्तिः' इति, एतदसत्; अतज्जातीयादपि भावानामुत्पत्तिदर्शनात्, यथा धूमादेः। येऽप्यत्राहुः- "सदृश-तादृशभेदेन भावानां विजातीयोत्पत्त्यसंभवादेतददूषणम्" तेषामपि सदृश-तादृशविवेको नार्वाग्दृक्प्रमातृगोचरः, कार्यनिरूपणायामपि तयोविवेको दुर्लभस्तस्मादयमपरिहारः । यैः पुनरुच्यते-“सर्वस्य समानजातीयादुपादानांदुत्पत्तिः, आद्यस्यापि धूमक्षणस्योपादा-२५ नत्वेन व्यवस्थापिताः काष्ठान्तर्गता अणवः” तत्रापि सजातीयत्वं न विद्मः । रूपादीनां हि रूपादिपूर्वकत्वेन वा सजातीयत्वम्, धूमत्वोपलक्षितावयवपूर्वकत्वेन वा? प्राच्ये विकल्पे नेदानीं विजातीयादुत्पत्तिोरप्यश्वादुपजायमानस्य । उत्तरविकल्पेऽपि काष्टान्तर्गतानामवयवानां धूमत्वं लौकिकम् , पारिभाषिकं वा? परिभाषायास्तावदयमविषयः । लोकेऽपि तदाकारव्यवस्थितानामवयवानां नैव धूमत्वव्यवहारः। तार्किकेणापि लोकप्रसिद्धव्यवहारानुसरणं युक्तं कर्तुम् । तस्मान्न सजातीयादुत्पत्तिः ।३० यच्चात्रोच्यते-'तस्यामवस्थायां विज्ञानाभावे तदवस्थातः प्रच्युतस्योत्तरकालमीदृशी संवित्तिर्न भवेत् 'न मया किञ्चिदपि चेतितम्' 'स्मृतिहींयमनुभवपूर्विका, अतो येनानुभवेन सता न किश्चिञ्चेत्यते तस्यामवस्थायां तस्यावश्यं सद्भावोऽभ्युपगन्तव्यः' एतत् सुव्याहृतम्, 'न किञ्चिच्चेतितं मया' इति ब्रुवता वस्त्वंवेदनं वोच्येत, स्वरूपावेदनं वा? वस्त्ववेदने सकलप्रतिषेधो न युक्तः । स्वरूपावेदनं तु स्वसंवेदनाभ्युपगमे दूरोन्सारितम् । तस्मादिदानीमेव मनोव्यापारात् तवस्थाभावी ३५ सर्वानवगमः संवेद्यते। अस्तु वा तस्यामवस्थायां विज्ञानं तथापि जनकत्वातिरिक्तव्यापारविशेषाभावः, समनन्तरप्रत्ययत्वे जनकत्वातिरिक्तेऽभ्युपगम्यमाने तयोस्तात्त्विकभेदप्रसङ्गः, तथा च 'यदेवैकस्यां ज्ञानसन्ततो समनन्तरप्रत्ययत्वं तदेव परसन्ततीववलम्बनत्वेन जनकत्वम्' इत्येतन्न स्यात् । अथ जनकत्वसमनन्तरत्वादयो धर्माः काल्पनिकाः, अकल्पितं तु यत् स्वरूपं तत् तात्त्विकम् , तच्च बोधरूपम् ४० किमिदानीं सांवृताद् रूपाद् भावानामुत्पत्तिः? नेत्युच्यते, कथं वो काल्पनिकत्वंम् ? अथ जनकत्वा १ पृ. ८८ पं०७। २-मसंचेति-वा०, बा०। ३-पत्तावादितः कां०, गु०। ४ पृ. ७४ पं० ३८पृ० ७८ पं० १॥ ५-नात् तदु-वा०, बा० विना। ६-स्त्वसंवेदनं चोच्ये-भा०, मां ०। ७-यत्वेन जनकत्वातिरिक्ताभ्यु-वा०, बा०। ८-तावालम्बनजनकत्वम्' इत्येतत् स्यात् । वा०, बा०। ९-चाकाल्प-भां। १०-त्वमजनकत्वाति-भां० । स० त० १२
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy