SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ ईश्वरस्वरूपवादः । ण्ववभासानुप्रवेशेन प्रतिभाति, उताननुप्रवेशेन ? यद्यनुप्रवेशेन तदैकतन्नीलज्ञानपरमाण्ववभासानामनुप्रवेशान्नीलज्ञानसंवेदनस्यैकपरमाणुरूपत्वम् । तस्य चाननुभवात् कुतो नीलज्ञानसंवेदनसिद्धिः? अथाननुप्रवेशेन तदा नीलज्ञानपरमाण्ववभासानामयःशलाकाकल्पानां प्रतिभासनात् कुतः स्थूलमेकनीलज्ञानसंवेदनं प्रतिनीलज्ञानपरमाण्ववभासं भिन्नत्वात् ? अथ स्वसंवेदनावभासभेदे सत्यपि न तत्प्रतिभासस्य नीलज्ञानस्य भेदः ननु कुतो नीलज्ञानस्याभेदः किं तत्स्वसंवेदनाभेदात् , स्वतो वा ? ५ यदि स्वसंवेदनाभेदात्, तदयुक्तम् । तद्भेदस्य व्यवस्थापितत्वात् । अथ स्वत एव तदभेदः, तदप्ययुकम्: तस्याद्याप्यासिद्धत्वात् । तथा, यदि दर्शनावस्थायां स्पर्शनावस्था न प्रतिभातीति तदवस्थाव्याप्तिदर्शनज्ञानेनावस्थातुर्न ग्रहीतुं शक्याः नन्वेवं तदप्रतिभासने तेन तव्याप्तिरपि कथं ग्रहीतुं शक्या? तदप्रतिभासने 'तत इदमवस्थातुरूपं व्यावृत्तम्' इत्येतदपि ग्रहीतुमशक्यमेव । न च तद्विविक्तप्रतिभासादेव तदव्या-१० प्तिर्गृहीतैवेति वक्तुं युक्तम् , तदप्रतिभासने तद्विविक्तस्यैवाग्रहणात् । न च तदव्याप्तिस्तस्य स्वरूपमेव' इति दर्शनशानेन तत्स्वरूपग्राहिणा तदभिन्नस्वरूपा तदव्याप्तिरपि गृहीतैवेति युक्तम् , तद्व्याप्तावप्यस्य सर्वस्य समानत्वात् । न चाबाधितैकप्रत्ययविषयस्यात्मन एकत्वमसिद्धम् । न चास्यैकत्वाध्यवसायस्य किश्चिद्वाधकमस्ति, तद्बाधकत्वेन संभाव्यमानस्य प्रमाणस्य यथास्थानं निषेत्स्यमानत्वात् ।। भवतु वाऽनुसन्धानप्रत्ययलक्षणाद्धेतोस्तदेकत्वसिद्धिस्तथापि नेतरेतराश्रयदोषः, यतो नैक-१५ त्वप्रतिबद्धमनुसन्धानमन्वयिदृष्टान्तद्वारेण निश्चीयते-येनायं दोषः स्यात्-अपि त्वनेकत्वेऽनुसन्धानस्यासंभवात् ततो व्यावृत्तमनुसन्धानं तदेकत्वेन व्याप्यत इत्येकसन्ताने स्मरणाद्यनुसन्धानदर्शनादनुमानतोऽपि तत्सिद्धिः । न च भेदे दर्शन-स्मरणादिज्ञानानामनुसन्धानं संभवति; अन्यथा देवदत्तानुभूतेऽर्थे यज्ञदत्तस्य स्मरणाद्यनुसन्धानं स्यात् ।। अथ देवदत्त-यज्ञदत्तयोरेकसन्तानाभावान्नानुसंधानम् , यत्र त्वेकः सन्तानस्तत्र पूर्वाऽप-२० रज्ञानयोरत्यन्तभेदेऽपि भवत्येवानुसन्धानम् : ननु सन्तानस्य यदि सन्तानिभ्यो भेदः एकत्वं च तदा शब्दान्तरेण स एवात्माऽभिहितो यत्प्रतिबद्धमनुसन्धानम् । अथ सन्तानिभ्योऽभिन्नः सन्तानस्तदा पूर्वोत्तरज्ञानक्षणानां सन्तानिशब्दवाच्यानां देवदत्त-यज्ञदत्तज्ञानवदत्यन्तभेदात् तदभिन्नस्य सन्तानस्यापि भेद इति कुतोऽनुसन्धाननिमित्तत्वम् ? अथैकसन्ततिपतितानां पूर्वोत्तरज्ञानसन्तानिनां कार्यकारणभावाद् भेदेऽप्येकसन्तानत्वम् तन्निवन्धनश्चानुसन्धानप्रत्ययो युक्तः, न पुनर्देव-२५ दत्त-यज्ञदत्तज्ञानयोः कार्यकारणभावः, अतस्तन्निबन्धनसन्तानाभावनिमित्तस्तत्रानुसन्धानाभावः ननु देवदत्तज्ञानं यशदत्तेन यदा व्यापार-व्याहारादिलिङ्गवलादनुमीयते तदा तद् यज्ञदत्तानुमानजनकं भवतीति कार्यकारणभावनिमित्तैकसन्ताननिवन्धनाऽनुसन्धानप्रसक्तिः स्यात् । ___अथ स्वसन्ततावुपादानोपादेयभावेन ज्ञानानां जन्यजनकभावः भिन्नसन्ततौ तु सहकारिभावेन तद्भाव इति नाऽयं दोषः; ननु किं पुनरिदमुपादानत्वं यदभावाद् भिन्नसन्तानेऽनुसन्धानाभावः ? यत् ३० स्वसन्ततिनिवृत्तौ कार्यं जनयति तदुपादानकारणम् , यथा मृत्पिण्डः स्वयं निवर्तमानो घटमुत्पादयतीति स घटोत्पत्तावुपादानकारणम् । अथवाऽपरम्-अनेकस्मादुत्पद्यमाने कार्य स्वगतविशेषाधायकं तत्, नत्वेवं निमित्तकारणम् । ननु प्रतिक्षणविशरारुग्वेकस्वभावपौर्वापर्यावस्थितज्ञानस्वभावेषु क्षणेषूपादानोपादेयभाव एव न व्यवस्थापयितुं शक्यः। तथाहि-उत्तरशानं जनयत् पूर्वज्ञानं किं नष्ट जनयति, उतानष्टम् , उभयरूपम्, अनुभयरूपं वा? न तावन्नष्टम् , चिरतरनष्टस्येवानन्तरनष्टस्याप्यवि-३५ द्यमानत्वेनोत्पादकत्वविरोधात् । नाप्यनष्टम् , क्षणभङ्गभङ्गप्रसङ्गात् । नाप्युभयरूपम्, एकस्वभावस्य विरुद्धोभयरूपासम्भवात् । नाप्यनुभयरूपम्, अन्योन्यव्यवच्छेदरूपाणामेकनिषेधस्य तदपरविधाननान्तरीयकत्वेनानुभयरूपताया अयोगात् । अथ यदि व्यापारयोगात् कारणं कार्योत्पादकमभ्युपगम्येत तदा स्यादयं दोषः-यदुत नष्टस्य व्यापारासम्भवात् कथं कार्योत्पादकत्वम् , यदा तु प्राग्भावमात्रमेव कारणस्य कार्योत्पादकत्वं तदा४० कुत एतद्दोषावसरः? नन्वेतस्मिन्नभ्युपगमे प्राग्भाविनोऽनेकस्मादुपजायमाने कार्ये कुतोऽयं विभागः १ एकनीलज्ञानपरमाण्ववभासे अपरतन्नीलज्ञानपरमाण्ववभासानामित्यर्थः। २-सनेन तद-मां०, भां० विना । -सनेति तद्-वा०, बा०। ३-त्तस्मर-मां०, भां०। ४-कसंताने पति-गु०। ५-र्ये सकलस्वगत-वा. बा० विना सर्वत्र। ६ चिरंतर-कां०, गु० ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy