SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ ७६ प्रथमे काण्डेसंबन्धग्राहकमाहुः व्याप्तः सकलाक्षेपणावगमात्" तथा च यत्र यत्रेति देशकाल विक्षिप्तानां व्यक्ती. नामनवभासाऽनुपपत्तिः, अत एकत्र क्षणे योगित्वं प्रतिबन्धग्राहिणः । एतत् पूर्वस्मादविशिष्टम्, तद् लोके अर्थान्तरदर्शनात् अर्थान्तरसुदृढप्रतीतो तार्किकाणां निमित्तचिन्तायां पक्षधर्मत्वाद्यमिधानम् । अतो न तान्त्रिकलक्षणप्रतिक्षेपोऽपि । ५ उत्पन्नप्रतीतीनामस्तु प्रामाण्यम्, उत्पाद्यप्रतीतीनां तु अतीन्द्रियाऽदृष्ट-परलोक-सर्वज्ञाद्यनुमानानां प्रतिक्षेप इति चेत्, तदसन् । यद्यनवगतसंबन्धान प्रतिपत्तृनधिकृत्यैतदुच्यते तदा धूमादिष्वपि तुल्यम् । अथ गृहीताविनाभावानामप्यतीन्द्रियपरलोकादिप्रतिभासानुत्पत्तेरेवमुच्यते, तदसत् ये हि कार्यविशेषस्य तद्विशेषेण गृहीताविनाभावास्ते तस्मात् परलोकाद्यव. गच्छन्त्येव; अतो न ज्ञायते केन विशेषेणातीन्द्रियार्थानुमानप्रतिक्षेपः? साहचर्याविशेषेऽपि १० व्याप्यगता नियतता प्रयोजिका न व्यापकगता, अतः समव्याप्तिकानामपि व्याप्यमुखेनैव प्रति पत्तिः । नियतताऽवगमे चार्थान्तरप्रतिपत्तो न वाधा, न प्रतिवन्धः, एकस्य रूपभेदानुपपत्तेः । ततो न विशेषविरुद्धसंभवः नापि विरुद्धायभिचारिण इति यदुक्तम् 'विरुद्धाऽनुमान-विरोधयोः सर्वत्र संभवात् क्वचिच्च विरुद्धाव्यभिचारिणः' इति, पतदप्यपास्तम् । 'अविनाभावसंबन्धस्य ग्रहीतुमशक्यत्वात् , अवस्था-देश-कालादिभेदात्' इत्यादेश्च पूर्वनीत्याऽनुमानप्रमाणत्वेऽनुपपत्तिः। १५ परोक्षस्यार्थस्य सामान्याकारेणान्यतः प्रतिपत्तौ लोकप्रतीतायां बौद्धस्तु कार्यकारणभावादि. लक्षणः प्रतिबन्धस्तन्निमित्तत्वेन कल्पितः । तदुक्तम् "कार्यकारणभावाद्वा स्वभावाद्वा नियामकात् । अविनाभावनियमोऽदर्शनान्न न दर्शनात्" ॥ [ ] इत्यादि । तथा "अवश्यंभावनियमः कः परस्यान्यथा परैः । अर्थान्तरंनिमित्ते वा धर्मे वाससि रागवत्" ॥ [ ] इति च । तथाहि-क्वचित् पर्वतादिदेशे धूम उपलभ्यमानो यद्यग्निमन्तरेणेव स्यात् तदा पावकधर्मानुवृत्तितस्तस्य तत्कार्यत्वं यनिश्चितं विशिष्टप्रत्यक्षाऽनुपलम्भाभ्यां तदेव न स्यादित्यहेतोस्तस्यासत्त्वात् कचिदप्युपलम्भो न स्यात्, सर्वदा सर्वत्र सर्वाकारेण वोपलम्भः स्यात् : अहेतोः सर्वदा सत्त्वात्। २५ स्वभावश्च यदि भावव्यतिरेकेण स्यात् ततो भावस्य निःस्वभावत्यापत्तेः स्वभावस्याप्यभावापत्तिः । तत्प्रतिबन्धसाधकं च प्रमाणं कार्य हेतोर्विशिष्टप्रत्यक्षाऽनुपलम्भशब्दवाच्यं प्रत्यक्षमेव सर्वज्ञसाधकहेतुप्रतिबन्धनिश्चयप्रस्तावे प्रदर्शितम् । स्वभावहेतोस्तु कस्यचिद् विपर्यये बाधकं प्रमाणं व्यापकानुपलब्धिस्वरूपम्, कस्यचित् तु विशिष्टं प्रत्यक्षमभ्युपगतम् । सर्वथा सामान्यद्वारेण व्यक्तीनाम् अतद्रूपपरावृत्तव्यक्तिरूपेण वा तासां प्रतिबन्धोऽभ्युपगन्तव्यः; अन्यथाऽप्रतिबद्धादन्यतोऽन्यप्रतिपत्ताव. ३० तिप्रसङ्गात् । प्रतिबन्धप्रसाधकं च प्रमाणमवश्यमभ्युपगमनीयम्; अन्यथाऽगृहीतप्रतिबन्धत्वादन्यतोऽन्यप्रतिपत्तावपि प्रसङ्गस्तदवस्थ एव । यत्र गृहीतप्रतिबन्धोऽसावर्थ उपलभ्यमानः साध्यसिद्धिं विदधाति तद्धर्मता तस्य पक्षधर्मत्वस्वरूपा, तद्ग्राहकं च प्रमाणे प्रत्यक्षमनुमानं वा। तदुक्तं धर्मकीर्तिना "पक्षधर्मतानिश्चयः प्रत्यक्षतोऽनुमानतो वा” [ ] ३५ अतो लोकप्रसिद्ध-तान्त्रिकलक्षणलक्षितानुमानयोर्भेदाभावादतीन्द्रियपरलोकाद्यर्थसाधकत्वमपि तस्यैवेति तत्प्रामाण्यानभ्युपगमे इहलोकस्यापि अभ्युपगमाभावप्रसङ्गः । न च 'किमत्र निर्विकल्प. सम, योगिप्रत्यक्षम. ऊहोवा प्रतिबन्धनिश्चायकम् प्रतिबन्धोऽपि नियतसाहचर्यलक्षण: कार्यकारणभावादिर्वा' इति चिन्ताऽत्रोपयोगिनी, धूमादग्निप्रतिपत्तिवत् प्रज्ञा-मेधादिविज्ञानकायविशेषान्निजजन्मान्तरविज्ञानस्वभावपरलोकप्रतिपत्तिसिद्धेः । अतोऽनुमानाप्रामाण्यप्रतिपादनाय १ पृ. ७५ पं० २७ । २ पृ. ७० पं० ३६ । ३ पृ. ७० पं० ३३-३५ । ४ परे का० । ५-रनिमितेऽथा-अ०। ६पृ. ५७ पं०१८ ।
SR No.009696
Book TitleSanmatitarka Prakaranam Part 1
Original Sutra AuthorN/A
AuthorSukhlal Sanghavi, Bechardas Doshi
PublisherGujarat Puratattva Mandir Ahmedabad
Publication Year
Total Pages516
LanguageSanskrit
ClassificationBook_Devnagari & Philosophy
File Size242 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy