________________
इत्यनेनाद्धापल्योपमो ग्राह्यः शेषमतिज्ञानादि- दशमार्गणास्थानेषु तु तेन
क्षेत्रपल्योपमो ग्राह्य इति ॥७॥
बायरसमत्तवज्जिअ
भू-दग-गणि-वाउकायभेएसुं । पत्ते अवणम्मि य तदपज्जे लोगा असंखिज्जा ॥८॥
'बायरसमत्ते 'त्यादि तत्र समत्तशब्दः प्राग्वत्, ततश्चबादरपर्याप्तभेदवर्जितेषु ओघ - बादरापैघ तदपर्याप्त सूक्ष्मौघ तत्पर्याप्ताऽपर्याप्तभेदभिन्नेषु 'भूदगगणिवायुकायभेएसुं' ति षट्षु पृथ्विकायभेदेषु, षट्षु अप्कायभेदेषु, षट्षु अग्निकायभेदेषु, षट्षु वायुकायभेदेषु, तथा प्रत्येक वनस्पतिकायौघे तदपर्याप्तभेदे चेत्येवं षड्विंशतिमार्गणास्थानेषु प्रत्येकं 'लोगा असंखिज्जा' त्ति असंख्येयेषु लोकप्रमाणेषु क्षेत्रखण्डेषु यावन्त आकाशप्रदेशास्तावन्तो जीवाः सन्तीत्यर्थः ॥८॥
बायरपज्जाग्गिम्मि उ
देसूणघणावलीअ समयमिआ । बायरपज्जाणी
संखंसो हुन्ति लोगस्स ॥९॥
'बायरपज्जारिगम्मि' इत्यादि, बादरपर्याप्ताऽग्निकायमार्गणास्थाने पुनः 'देणे'त्यादि, आवलिकायाः समयेषु घनीकृतेषु यावन्तः समया भवेयुस्ततः स्तोकमात्रेणैकदेशेन न्यूना जीवा भवन्तीत्यर्थः ।
'बायरपज्जाणीले' त्ति बादरपर्याप्ते 'ऽनीले' वायुका लोकस्य संख्येयतमे भागे यावन्त आकाशप्रदेशाः सन्ति तावन्तो जीवाः सन्तीत्यर्थः ॥९॥
१९
सेसातीसठाणे
उता जीवा हवन्ति इइ रइयं । अप्पावहारणडा
रज्जे सिरिपेमसूरीणं ॥१०॥
ताण पसीसाण पउमविजयगणिदाण सीसलेसेण । दव्वपमाणपगरणं
नन्दउ जा वीरजिणतित्थं ॥ ११ ॥
'सेसाss' इत्यादि, उपर्युक्तशेषेषु तिर्यग्गत्योघा-दिष्वष्टत्रिंशन्मार्गणास्थानेषु प्रत्येकं 'णंता'त्ति अनंता जीवाः सन्ति । अष्टात्रिंशच्छेषमार्गणास्थानानि त्विमानि - तिर्यग्गत्योघः, ओघ - बादरौघतत्पर्याप्ताऽपर्याप्त सूक्ष्मौघ तत्पर्याप्ताऽपर्याप्तभेदभिन्नाः सप्त एकेन्द्रियभेदाः, तथैव सप्त साधारणवनस्पतिकाय - भेदाः, वनस्पतिकायैौघः, काययोगौघः, औदारिक- तन्मिश्र - कार्मणकाययोगाः, नपुंसकवेदः, क्रोधादिकषायचतुष्कम् मत्यज्ञान - श्रुताज्ञाने असंयमः, अचक्षुर्दर्शनम्, कृष्णादित्र्यशुभलेश्याः, भव्या-ऽभव्यौ, मिथ्यात्वम्, असंज्ञी, आहारकाS नाहारकौ चेति ।
अथोपसंहरन्नाह - 'इइ रइयमित्यादि, अस्य चान्वय उत्तरगाथोत्तरार्धे 'दव्वपमाणे 'त्यादिना तथा च 'इति' सप्तत्युत्तरशतमार्गणास्थानेषु जीव- परिमाणकथनद्वारेण रज्जे सिरिपेमसूरीणं ति चतुर्विधसङ्घकौशल्याधारसुविहितशिरोमणिकर्मशास्त्र-पारङ्गतसिद्धान्तमहोदधीनां श्रीमतां प्रेमसूरीणां 'राज्ये' साम्राज्ये प्रवर्तमाने 'ताण' त्ति तेषां पूज्यपादानां 'पसीसाण' त्ति प्रशिष्याणां शिष्यशिष्याणाम्, तत्र प्रेमसूरीश्वरपूज्यपादानां स्वशिष्याः सुविख्यातनामधेयाः स्वात्मसाधना
२०