SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ 10 ५४] [दीपालिकापर्वसंग्रहः ॥ भाविपुत्रः स तारुण्ये चक्री तीर्थङ्करोऽथवा । भविष्यति विभोऽवश्यं नाऽन्यथा मुनिभाषितम् ॥८९।। विपुलां जीविकां दत्त्वा विसृज्य स्वप्नपाठकान् । राजा देव्यै तदाचख्या-वभ्यनन्दच्च साऽपि तत् ॥९०॥ तदा च जृम्भिका देवा देवाधीशनिदेशतः । न्यधुः सर्वनिधानानि सिद्धार्थनृपमन्दिरे ॥९१।। राजाऽथ त्रिशलामाह यदाप्रभृति नः कुले । पुण्यात्मावततारासौ वर्धामहे ततो वयम् ॥९२।। तस्य पुत्रस्य दास्यामो वर्द्धमानाभिधां ध्रुवम् । स्वाम्यऽथ सप्तमे मासे स्वमातुरनुकम्पया ॥९३।। अङ्गोपाङ्गानि सङ्कोच्याऽ-स्थान्मातेति शुशोच च । गर्भो मे नैजतीदानी हृतोऽथ गलितः कथम् ॥९४॥ युग्मम् ॥ हृत्वा दुःखं प्रभुः पित्रोः स्वाङ्गैकदेशकम्पनात् । निश्चिक्ये च भविष्यामि न पित्रोर्जीवतोर्वती ॥९५॥ नात्याम्लै तिमधुरै- तिरुक्षैर्न शीतलैः । पुपोष गर्भमाहारै-र्माता सम्पूर्णदोहदा ॥१६॥ एवं नवसु मासेषु सार्द्धाष्टदिवसेषु च । चैत्रशुक्लत्रयोदश्या-मिन्दौ हस्तोत्तराभिधे ॥९७॥ निर्मलास्वखिलादिक्षु ग्रहेषूच्चस्थितेषु च । विश्वत्रयोद्योतकरं नारकेभ्योऽपि सौख्यदम् ॥९८॥ जरारहितमरुजाजरायुमलवजितम् ।। प्राचीव रविमुद्रश्मि स्वामिनी सुषुवे सुतम् ॥९९।। त्रिभिर्विशेषकम् ॥ तदा चासनकम्पेन षट्पञ्चाशत्कुमारिकाः ज्ञात्वा दिग्भ्यः समभ्येत्य सूतिकर्म व्यधुर्विभोः ॥१००।। आसनादि तदेन्द्राणां समस्तानां चकम्पिरे । ते चाऽभ्येत्य मेरुशृङ्गे जिनजन्मोत्सवं व्यधुः ॥१०१॥ तद्रात्रौ जृम्भका देवाः सिद्धार्थनृपमन्दिरे । ववृषुः स्वर्णरत्नादि-वस्त्रपुष्पफलादिकम् ॥१०२।। 15 D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy