________________
दीपमालिकाव्याख्यानम् ॥]
[१५३ महग्धं रयणं तेअहीणं दिटुं १४, पनरसमे रायकुमारो वसहारूढो दिट्ठो १५, सोलसमे गयकलहजुयला जुज्जंता दिट्ठा १६, एएण सुमिणाणुसारेण सासणे किं किं भविस्सइ ? इइ चंदगुत्तस्स रायस्स वयणं सुच्चा भद्दबाहुगणहरो युगप्पहाणो भवोदहितारगो चंदगुत्तस्य संघसमक्खं भणइ-चंदगुत्ता ! सुमिणाणुसारेण अत्थं कहेमि" ॥ तं जहाप्रश्नसूत्रं सुगममत उत्तरसूत्रं व्याख्यायते
षोडशस्वप्नानां मध्ये प्रथमं तावत् चन्द्रगुप्तेन राज्ञा कल्पवृक्षस्य शाखा भग्ना दृष्टा, तस्य फलम्-अतः पश्चात् कोऽपि राजा संयम न ग्रहीष्यति १, द्वितीयस्वप्ने सूर्यस्याकाले एवास्तत्वं दृष्टं तेन केवलज्ञानं विच्छेदं यास्यति २, तृतीये चन्द्रः शतच्छिद्रो दृष्टस्तेन एकस्मिन् धर्मेऽनेके मार्गा भविष्यन्ति ३, चतुर्थे भूता नृत्यन्तो दृष्टास्तेन कुमतिजना भूता इव नय॑न्ति ४, पञ्चमे द्वादशफणः कृष्णसर्पो दृष्टस्तेन 10 द्वादश वर्षाणि यावद् दुर्भिक्षं भविष्यति, कालिकसूत्रप्रमुखाणि श्रुतानि विच्छेदं यास्यन्ति, चैत्यद्रव्यधारिणो भिक्षुकाश्च तत्र ये साधुधर्मकाङ्क्षिणः ते सर्वे दक्षिणस्यां दिशि वलभ्यां गमिष्यन्ति ५, षष्ठे विमानं पतितं दृष्टं तेन जङ्घाचारणा विद्याचारणाश्च साधवो भरते ऐरावते च नाऽऽगमिष्यन्ति ६, सप्तमे कचवरधरित्र्यां कमलमुद्गतं दृष्टं तेन धर्मश्चतुर्णां वर्णानां मध्ये वैश्यवंशमध्ये भविष्यति, सूत्ररुचिश्चाल्पजनानां 15 भविष्यति ७, अष्टमे खद्योत उद्योतं करोति, तेन जिनधर्मे उदयपूजासत्कारो न भविष्यति परन्तु कुदर्शनस्य पूजादि भविष्यति ८, नवमे शुष्कं सरोवरं दृष्टं तेन यत्र यत्र देशे जिनानां कल्याणकानि तत्र तत्र धर्महानिर्भविष्यति ९, दशमे सुवर्णपात्रे क्षीरं भक्षयन् श्वा दृष्टस्तेन उत्तमा लक्ष्मीरधमगृहे गमिष्यति १०, एकादशे गजारूढो वानरो वनचरो दृष्टः तेन सुखारूढा दुर्जना भविष्यन्ति इक्ष्वाकुवंशीयानां यादवप्रमुखाणां च 20 हानिर्भविष्यति ११, द्वादशे समुद्रो मर्यादां मुञ्चन् दृष्टः, तेन राजानो ऽन्यायकर्तारो भविष्यन्ति, क्षत्रियाश्च कुमार्गगामिनो भविष्यन्ति १२, त्रयोदशे महारथे वत्सा युक्ता दृष्टाः, तेन वृद्धावस्थायां चारित्रं जना न ग्रहीष्यन्ति, परं वत्सतुल्या लघुवयसः साधवो भविष्यन्ति, ये च वैराग्यभावेन चारित्रं ग्रहीष्यन्ति ते च प्रमादिनो भविष्यन्ति १३, चतुर्दशे महायँ रत्नं तेजोहीनं दृष्टम् । तेन भरते ऐरवते च साधवोऽसमाधिकरा: 25 कलहकरा उपद्रवकराश्च भविष्यन्ति तथा श्रमणा अपि स्तोका भविष्यन्ति १४, पञ्चदशे राज्ञः कुमारो वृषभारूढो दृष्टः, तेन क्षत्रिया मिथ्यात्ववासिनो भविष्यन्ति १५, षोडशे गजकलभयुगलं युद्धं कुर्वद् दृष्टम् तेन मुनिवरा अल्पस्नेहा अकालव्यसनिनोऽहर्निशं
D:\chandan/new/kalp-2/pm5\3rd proof