________________
दीपावलिकापर्वव्याख्यानम् ॥]
[१४३ मुमूर्षुः क्व यासि ? कियद् दूरं प्रणष्टः सन् यास्यासि" ? तन्मिषं कृत्वाऽधुना लोका दीपं करे कृत्वा स्वगृहात् शूर्पच्छलात्तं चरटं वित्रास्य मन्दिरान्निष्कासयन्त्येव किमु ? मोहाविरतिरूपामलक्ष्मी निर्वासयन्ति गौतमज्ञानोत्पत्तिरूपां महालक्ष्मी स्वात्ममन्दिरे स्थापयन्तीति भावार्थः ।
अथैषु दिनेषु मध्ये एकोपवासेन सहस्रगुणं पुण्यं स्यात् , अष्टमतपसा कोटिगुणं 5 पुण्यं स्यात् , यतो यत्र दिनेषु सर्वे जनाः पञ्चेन्द्रियसुखाभिलाषिणो जायन्ते, महान्ति कर्मबन्धकारणानि रचयन्ति, भोगोत्सुका भवन्ति च, अतस्तत्त्यागिनां परमार्थज्ञानां महान् लाभो भवत्येव । अथवा चतुर्दश्याममावास्यायां च षोडशप्रहरानुपवासौ विधाय चन्दनाक्षतपूजाभिः कोटिपुष्पसहिताभिः श्रीवीरादिजिनान् पञ्चचत्वारिंशत्सिद्धान्तांश्च पूजयेत् , "श्रीवीरस्वामिसर्वज्ञाय नमः" इत्यस्य जपो विधेयः । अमावास्यायां 10 चरमयामार्धे "श्रीवीरं पारङ्गताय नमः" इति प्रतिपत्प्रगे तु "श्रीगौतमस्वामिकेवलज्ञानाय नमः" । सहस्रसुवर्णपत्रकमले निषण्णं पद्मासनस्थं पञ्चाशत्सहस्रसाधुसाध्वीस्वदीक्षितपरिषत्परिकलितं च चित्ते संस्मृत्य जिनाग्रे तथा गौतमस्वाम्यग्रेऽखण्डाक्षतैः पञ्चाशत्सहस्रसङ्ख्यैः स्वस्तिकं कृत्वाऽखण्डयत्नतो दीपं विधाय गौतमप्रभुं ध्यायेत् , महत्फलं स्यात् । इत्युपदेशः सुहस्तिसूरिणा सम्प्रत्यग्रे प्रोक्तः । 15 सोऽपि तत्पर्वाराधने तत्परो जातः ॥
वर्धमानजिन आप निर्वृत्तिं, यत्र केवलरमां च गौतमः ।। राजभिर्व्यरचि दीपमालिका, तत्ततोऽस्ति न हि पर्व भूतले ॥१॥ इत्यब्ददिनपरिमितहितोपदेशसंग्रहाख्यायामुपदेशप्रासादग्रन्थस्य वृत्तौ
चतुर्दशस्तम्भे व्याख्यानम् ॥२१०॥ अथ ज्योत्कारोऽद्भूतोऽभवत् तत्स्वरूपमाह
अन्योऽन्यं जनज्योत्कारा, भवन्ति प्रतिपत्प्रगे । तत्स्वरूपं तदा पृष्टे, पुनर्जगाद साधुपः ॥१॥
स्पष्टः । हे नृप ! सम्प्रते ! एकस्त्वयं हेतुरस्ति-गौतमस्य केवलमुत्पन्नं नवीनराज्येशमिव सर्वैरागत्य गणभृद्वन्दितः, तेन प्रणामविधिर्जातः । अन्यं हेतुं शृणु- 25
D:\chandan/new/kalp-2/pm5\3rd proof