________________
[१०९
दीपालिकाकल्पः ॥]
ततः सर्वप्रकारेण धनं लास्यति लोकतः । त्याजयिष्यति लिङ्गानि लिङ्गिभिः स दुराशयः ॥२७३।। वामजङ्घासव्यकुक्ष्योः सप्रहारौ भविष्यतः । पंचाशत्तमवर्षस्य तस्य दुष्कर्मयोगतः ॥२७४।। अन्ते कल्की पुनः स्मृत्वा भिक्षाषष्ठांशहेतवे । गोवाटके प्रातिपदा-चार्यसाधून्निरोत्स्यते ॥२७५।। तदा प्रातिपदाचार्य-मुख्यसङ्घोऽखिलोऽपि हि । शासनदेवतां स्मृत्वा कायोत्सर्गं विधास्यति ॥२७६।। कायोत्सर्गेण सङ्घस्य प्राप्ताः शासनदेवताः । युक्तिभिर्बोधयिष्यन्ति यावत् कल्की न भोत्स्यते ॥२७७।। तावदासनकम्पेन तत्रागन्ता समुत्सकः । वृद्धद्विजवपुः कृत्वा शक्र: शासनभक्तितः ॥२७८।। तं च सिंहासनासीनं वदिष्यति दिवस्पतिः । निरागसः किमेतेऽत्र निरुद्धाः साधवस्त्वया ॥२७९।। स प्राह जज्ञिरे सर्वे पाखण्डाः करदा मम । भिक्षांशं ददते नैते निरुद्धास्तेन वाटके ।।२८०।। वदिष्यति ततः शक्र-स्तमेषां नास्ति किञ्चन । भिक्षांशमपि दास्यति न कस्य कथमप्यमी ॥२८१।। याचमानस्तदेतेभ्यो भिक्षाशं लज्जसे न किम् । अमून् मुञ्चान्यथा भावी तवानर्थो महानिह ।।२८२।। इत्युदित्वा स क्रमेण मम निर्वाणतो गते । वर्षसहस्रद्वितये भाद्रशुक्लाष्टमीदिने ॥२८३॥ ज्येष्टः रविवारे च चपेटाप्रहतो रुषा । षडशीति-समायुष्कः कल्किराट् नरकं गमी ॥२८४।। शिक्षयित्वाऽऽर्हन्तं धर्मं दत्तं तस्याङ्गजं हरिः । राज्ये न्यस्य गुरून्नत्वा सङ्घ सौस्थ्ये गमी दिवम् ॥२८५।। पितुः पापफलं ज्ञात्वा दत्तः पुण्यैकतत्परः । प्रत्यहं कारितै ३-श्चैत्यैर्मण्डयिता महीम् ॥२८६।।
D:\chandan/new/kalp-l/pm5\3rd proof