SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ १०८] [दीपालिकापर्वसंग्रहः ॥ भक्तवस्त्रादिलुब्धास्तु गीतार्थानां तथोदितम् । अवमत्याविवेकेन तत्र स्थास्यन्ति केचन ॥२६०।। सप्तदशाऽथाऽहोरात्रान् वर्षिष्यति पयोधरः । अतिवृष्ट्या तया कल्कि-नगरं प्लावयिष्यति ॥२६१।। कल्की नंष्ट्वा पुनः क्वापि स्थास्यति स्थलमूर्द्धनि । गते जलोपसर्गेऽस्मिन् करिष्यति नवं पुरम् ॥२६२।। नीरप्रसरतो हेम-गिरीन् नन्दविनिर्मितान् । निरीक्ष्य मूढधीरर्थलोलुपो भविता भृशम् ॥२६३।। परा करमदातणां करकर्ता महाकरम । सकराणां करं नव्यं महाकरवतामपि ॥२६४॥ वृथैव दोषमुत्पाद्य लाता धनवतां धनम् । छलं वदति भूपानां हलं नेति नयं वदन् ॥२६५।। लोकात्तथाऽग्रहीतार्थं यथा भाव्यधनो जनः । पृथ्व्यामूर्णायुचीर्णायां प्राप्यते न यतस्तृणम् ॥२६६।। लोके तेन सुवर्णादि-नाणकं नाशयिष्यति । चर्मणो नाणकैस्तेन व्यवहारः प्रवर्त्यति ॥२६७।। वेश्याः पाखण्डिनः सर्वे कल्किना याचितं करम् । तस्मै दास्यन्ति सारम्भाः सावद्याः सपरिग्रहाः ॥२६८।। पर्णादौ भोजनं कर्व-नाक्रोशांस्तस्य पश्यतः । जनो दास्यति निश्वासान् भयं भवति भाजने ॥२६९।। भाविनि जिनसद्मानि विहरिष्यन्ति साधवः । वर्षिष्यन्ति च कालेऽब्दा द्रोणो द्रम्मेण लप्स्यते ॥२७०|| कल्की त्यक्तधनान् साधू-नन्यदा राजवर्त्मनि । विलोक्य लोभतो भिक्षा-षष्ठांशमर्थयिष्यति ॥२७१।। ततः साधुकृतोत्सर्गा-हूता शासनदेवता । याचमानान् यतीन् भिक्षां कल्किनं वारयिष्यति ॥२७२।। १. सामान्यविधान । 15 25 D:\chandan/new/kalp-1/pm5\3rd proof
SR No.009693
Book TitleDipalika Kalpa Sangraha
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages304
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy