________________
10
१०६]
[दीपालिकापर्वसंग्रहः ॥ यशोगृहे यशोदायाः कुक्षौ स्थित्वा त्रयोदशान् । मासान् मधोः सिताष्टम्यां जयश्रीवासरे निशि ॥२३३।। षष्ठे मकरलग्नांशे वहमाने महीसुते । वारे कर्कस्थिते चन्द्रे चन्द्रयोगेऽशुभावहे ॥२३४।। प्रथमे पादेऽश्लेषायाः कल्किजन्म भविष्यति । त्रिहस्तोच्चः स कपिल-शीर्षकुन्तललोचनः ॥२३५।। त्रिभिर्विशेषकम् ॥ तीक्ष्णस्वरोऽदृष्टपृष्ठ-लाञ्छनश्छद्मतत्परः । महाविद्योद्धरो दीर्घ-हृदयो गुणवर्जितः ॥२३६।। जन्मतः पञ्चमे वर्षे जठरापद्भविष्यति । सप्तमेऽग्न्यापदस्यैका-दशे द्रव्यस्य सम्भवः ॥२३७।। तस्यैवाष्टादशे वर्षे कार्तिके मासि निर्मले । पक्षे च प्रतिपद् घने शनौ चन्द्रे तुलास्थिते ॥२३८।। स्वातौ नन्दिदिने सिद्ध-वेलायां करणे बवे । मुहूर्ते रावणे राज्या-भिषेको हि भविष्यति ॥२३९॥ युग्मम् ।। अदन्तस्तुरगस्तस्य कुन्तो दूर्वासकस्तथा । मृगाङ्कनाम किरीटं खड्गश्च दैत्यसूदनः ॥२४०॥ तस्यांह्रिकटके चन्द्र-सूर्यौ त्रैलोक्यसुन्दरौ । चारुसौधं तथा भावि-द्रव्यसंख्या न भाविनी ॥२४१॥ संवत्सरं विक्रमस्यो-त्थाप्य स्वर्णप्रदानतः । संवत्सरं स्वकीयं स स्थापयिष्यति भूतले ॥२४२॥ एकोनविंशवर्षेऽर्द्ध-भरतं विग्रहाकुलम् । दोर्दण्डमण्डलाक्रान्तं करिष्यति महाबलः ॥२४३।। सार्द्धविंशत्तमे वर्षे-ऽर्बुदक्षितिभृतः सुतां । परिणीय बहू राज्ञी-विधाताज्ञां महीतले ॥२४४।। भुञ्जानस्य महाभोगान् तस्य पौढपराक्रमाः । चत्वारो दत्त-विजय-मुञ्जाऽ-पराजिताः सुताः ॥२४५।। कल्किनः पाटलीपुत्रे राजधानी भविष्यति । तस्य कल्किपुरं नाम द्वितीयं विस्तरिष्यति ॥२४६॥ १. मङ्गले । २. पूर्वाह्ने । ३. वाससौधम् ।
20
D:\chandan/new/kalp-1/pm5\3rd proof