________________
परिशिष्टम्
[७] धर्मसंग्रहवृत्तिगतव्याकरणादिविमर्शः ॥
'धर्मसंग्रह
'मातापितरौ'
'दीनः'
'धर्मकथी'
'भंते !'
धर्मसंग्रह-नामकं शास्त्रम् । तत्र संगृह्यतेऽनेनेति संग्रहः, "पुंनाम्नि"[सि.हे. ५-३-१३०] इति करणे घः, धर्मस्य वक्ष्यमाणलक्षणस्य संग्रहो धर्मसंग्रह इति ।। [पृ० ३] माता च पिता च मातापितरौ "आ द्वन्द्वे" [ सिद्ध हे० ३-२-३९] इत्यात्त्वम् । मातुश्चाभ्यहितत्वात् पूर्वनिपातः ॥ [पृ० १४] "दीङ् क्षये" [दिवादौ धा० १०१] इति वचनात् क्षीणसकलधर्मार्थकामाराधनशक्तिः ॥ [पृ० १८] धर्मकथा प्रशस्ताऽस्यास्तीति धर्मकथी, “शिखादित्वादिन्'[शिखादिभ्य इन् श्रीसि० ७-२-४] ॥ [पृ० ७९] भंते ! इति गुरोरामन्त्रणम् , हे भदन्त ! भदन्तः सुखवान् कल्याणवांश्च भवति । "भदुङ् सुखकल्याणयोः" [धा० पा० ७२२] अस्यौणादिकान्तप्रत्ययान्तस्य निपातने रूपम् ॥ [पृ० १५०] अथवा भवान्त भन्ते इत्यार्षत्वान्मध्यव्यञ्जनलोपे रूपम् , भन्ते इति “अत एत्सौ पुंसि मागध्याम्" [ श्रीसि०८-४-२८७ ] इत्येकारः, अर्द्धमागधत्वादार्षस्य [पृ० १५०]
प्रतीति प्रतिषेधे, आङाभिमुख्ये, “ख्या प्रकथने" [ है० धा० पा० १०७१] ततश्च प्रतीपमभिमुखं ख्यापनं सावद्ययोगस्य करोमीत्यर्थः । अथवा 'पच्चक्खामि'त्ति प्रत्याचक्षे "चक्षिङ् व्यक्तायां वाचि"[ हैमधातुपाठे २/६४] इत्यस्य प्रत्यापूर्वस्य रूपम् , प्रतिषेधस्यादरेणाभिधानं करोमीत्यर्थः। [पृ० १५०-१५१] देशे -दिग्व्रतगृहीतपरिमाणस्य विभागेऽवकाशः -अवस्थानं देशावकाशः, सोऽत्रास्तीति "अतोऽनेकस्वराद्' [ श्रीसि० ७-२-६] इतीके देशावकाशिकम् ॥ [पृ० १५४]
'प्रत्याख्यामि'
'देशावकाशिकं'
D:\d-p.pm5\3rd proof