________________
४४८ ]
[ धर्मसंग्रहः - द्वितीयोऽधिकारः
महादितत्स्वागतकरण-भोजनवसनप्रदानादिसर्वाङ्गीणसत्कारण-बन्दिमोक्षकारणमारिनिवारणा-ऽवारितसत्रवितरण - सूत्रधारसत्कारण-स्फीतसङ्गीताद्यभिनवाद्भुतोत्सवावतारणादिरष्टादशस्नात्रकारणादिश्च प्रतिष्ठाकल्पादेर्ज्ञेयः । किञ्चिच्च पञ्चाशकत उध्रियते । तथाहि -
-
" णिप्फण्णस्स य सम्मं, तस्स पइट्टावणे विही एसो ।
सुहजोएण पवेसो, आयतणे ठाणठावणया" ॥१॥ [ पञ्चा.८/१६]
सम्यक् विधिवन्निष्पन्नस्य तस्यजिनबिम्बस्य, प्रतिष्ठापने, एष वक्ष्यमाणो, विधिर्ज्ञेयः, तमेवाह –शुभयोगेन साधकचन्द्रनक्षत्रादिसम्बन्धेन प्रशस्तमनः प्रभृतिव्यापारेण वा, प्रवेशो बिम्बस्य कर्त्तव्य इति शेषः, आयतने भवने, स्थानस्थापना उचितस्थानन्यासश्च, बिम्बस्यैवेति गाथार्थः ॥१॥
"तेणेव खेत्तसुद्धी, हत्थसयादिविसया णिओगेणं ।
कायव्वो सक्कारो, गंधपुप्फाइएहि तहिं ॥२॥ [ पञ्चा.८/१७]
तथा तेन शुभयोगेन, क्षेत्रशुद्धिर्भूमिशोधनम्, अस्थिमांसाद्यशुचिद्रव्यापनयनेन, हस्तशतादिविषया आदिशब्दाद् बहुतरविषयापि, नियोगेनावश्यं कार्येति गम्यम्, तथा गन्धपुष्पादिभिर्जिनभवने प्रतिष्ठावसरे चेति गाथार्थः ॥२॥
"दिसिदेवयाण पूआ, सव्वेसिं तह य लोगपालाणं ।
ओसरणकमेणणे, सव्वेसिं चेव देवाणं" ॥३॥ [ पञ्चा.८/१८ ]
दिग्देवतानामिन्द्रादीनां पूजा कार्या, तथा लोकपालानां सोमादीनां खड्ग १ दण्ड २ पाश ३ गदा ४ हस्तानां अवसरक्रमेण - समवसरणन्यायेन, अन्ये आचार्याः सर्वेषां देवानां पूजा कार्योत्येवमाहुरिति गाथार्थः ॥३॥
"तत्तो सुहजोएणं, सट्टाणे मंगलेहिं ठवणा उ ।
अहिवासणमुचिएणं, गंधोदगमाइणा एत्थ " ॥४॥ [पञ्च.८/२१]
ततो दिग्देवतादिपूजानन्तरं, शुभयोगेन प्रशस्तचन्द्रनक्षत्रलग्नादिसम्बन्धेन, स्वस्थानेऽधिवासनोचिते देशे, मङ्गलैर्गेयविशेषैश्चन्दनादिभिर्वा, स्थापना न्यासो, बिम्बस्य कार्येति गम्यम्, ततश्चाधिवासनशुद्धिविशेषापादनेन बिम्बप्रतिष्ठायोग्यताकारणं प्रतिष्ठाकल्प
१. ठाणठवणा य-इति पञ्चाशके । स्थानस्थापना च - इति वृत्तौ तत्रैव ॥ २. अवसरक्र' P.C.I समवसरणरचनार्थं पञ्चाशकप्रकरणे [२।१२ तः ] द्रष्टव्यम् । ३. L.P.C. पञ्चाशकवृत्तौ च । 'लग्नसं' मु० ॥
D:\new/d-2.pm5\3rd proof