________________
३४८]
[धर्मसंग्रहः-द्वितीयोऽधिकारः मुपस्थितभविकजनोपकारादिना परतोऽपि-चैत्यवन्दनाया अग्रतोऽपि यतीनामवस्थानमनुज्ञातम् , शेषकाले साधूनां जिनाशातनादिभयान्नानुज्ञातमवस्थानं तीर्थकरगणधरादिभिः, ततो व्रतिभिरप्येवमाशातनाः परिहियन्ते गृहस्थैस्तु सुतरां परिहरणीया इति । तस्माच्चैत्यालयाद्यथोचिते स्थाने गमनं युक्तिमत् । ___ अत्र चार्थार्जनमित्यनुवाद्यं न तूपदेश्यम् , तस्य स्वयंसिद्धत्वात् , धर्म्यमिति तु विधेयमप्राप्तत्वात् , 'अप्राप्ते हि शास्त्रमर्थवत्' । न हि गृहस्थोऽर्थमर्जयेद् बुभुक्षितोऽश्नीयादित्यत्र शास्त्रमुपयुज्यते, अप्राप्ते त्वामुष्मिके मार्गे नैसर्गिकमोहान्धतमसविलुप्तावलोकस्य लोकस्य शास्त्रमेव परमं चक्षुरित्येवमुत्तरत्राप्यप्राप्ते विषये उपदेशः सफल इति चिन्तनीयम् । न च सावद्यारम्भेषु शास्तृणां वाचनिक्यप्यनुमोदना युक्ताः । यदाहुः -
"सावज्जणवज्जाणं, वयणाणं जो ण जाणइ विसेसं ।
वुत्तुं पि तस्स न खमं, किमंग पुण देसणं काउं" ॥१॥[य.स./७४ ] इति । धर्माविरोधश्च राज्ञां दरिद्रेश्वरयोर्मान्यामान्ययोरुत्तमाधमयोश्च माध्यस्थ्येन न्यायदर्शनाद् बोद्धव्यः । नियोगिनां धर्माविरोधो राजप्रजार्थयोः साधनेन अभयकुमारादिवत् । वणिगादीनां च धर्माविरोधो व्यवहारशुद्धिदेशादिविरुद्धकृत्यपरिहारोचितकार्याचरणैराजीविकां कुर्वतां भवति । तथैव चोक्तम् -
"ववहारसुद्धिदेसाइविरुद्धच्चायउचिअचरणेहिं ।
ता कुणइ अत्थचिंतं, निव्वाहितो नि धम्मं ॥१॥[ श्रा.वि./७] ति । व्याख्या -आजीविका च सप्तभिरुपायैः स्यात् , वाणिज्येन १, विद्यया २, कृष्या ३, शिल्पेन ४, पाशुपाल्येन ५, सेवया ६, भिक्षया च ७। तत्र वाणिज्येन वणिजाम् १, विद्यया वैद्यानाम् २, कृष्या कौटुम्बिकादीनाम् ३, पाशुपाल्येन गोपालादीनाम् ४, शिल्पेन चित्रकरादीनाम् ५, सेवया सेवकानाम् ६, भिक्षया भिक्षाचराणाम् ७। एषु च वणिजां वाणिज्यमेव मुख्यवृत्त्यार्थार्जनोपायः श्रेयान् । पठ्यतेऽपि -
"महुमहणस्स य वच्छे, न चेव कमलायरे सिरी वसइ ।
किंतु पुरिसाण ववसायसायरे तीर सुहडाणं ॥१॥[ ] वाणिज्यमपि स्वसहायनीवीबलस्वभाग्योदयकालाद्यनुरूपमेव कुर्यादन्यथा सहसा त्रुट्याद्यापत्तेः । वाणिज्ये व्यवहारशुद्धिश्च द्रव्यक्षेत्रकालभावभेदाच्चतुर्द्धा -तत्र द्रव्यतः पञ्चदशकर्मादानादि बह्वारम्भादिनिदानं भाण्डं सर्वात्मना त्याज्यम , स्वल्पारम्भ एव
१. तुला-श्राद्धविधिवृत्तिः प० ९० ।। २. तुला-श्राद्धविधिवृत्तिः ।।
D:\new/d-2.pm5\3rd proof