________________
विकृतिस्वरूपम्-श्लो० ६२ ॥ ]
[ ३३७
वाहिनां निर्विकृतिप्रत्याख्यानेऽपि कल्पन्ते । अथैकेनैव पूपकेन तापिका पूर्यते, तदा द्वितीयं पक्वान्नं, निर्विकृतिप्रत्याख्यानेऽपि कल्पते, लेपकृतं तु भवतीत्येषा वृद्धसामाचारी |
एवं शेषाण्यपि विकृतिगतानि । तानि चामूनि -
44
'अह पेया १ दुद्धट्टी २ दुद्धवलेही य ३ दुद्धसाडी य ४ ।
पंच य विगइगयाइं, दुर्द्धमि खीरसहियाई ५ ॥१॥ [ प्र.सा./२२७] अंबिलजुअंमि दुद्धे, दुद्धट्टी दक्खमीसरुद्धंमि ।
पयसाडी तह तंदुलचुण्णयसिद्धमि अवलेही " ॥२॥ [ प्र.सा./२२८ ] व्याख्या –अल्पतन्दुलसहिते दुग्धे राद्धे पेयोच्यते १, अम्लयुते तु दुग्धाटी, अन्ये तु र्बलहिकामाहुः २, तन्दुलचूर्णयुते चावलेखिका ३, द्राक्षासहिते पय: शाटी ४, बहुतन्दुलयुक्ते च दुग्धे राद्धे क्षैरेयीति पञ्च दुग्धविकृतिगतानि, विकृतिर्गता एष्वि (भ्य इ)ति विकृतिगतानि निर्विकृतिकानीत्यर्थः ।
"दहिए विगइगयाई, घोलवडा १ घोल २ सिहरिणि ३ करंबो ४ ।
लवणकणदहियमहियं ५, संगरिगाइंमि अप्पडिए " ॥ १ ॥ [ प्र.सा./ २२९]
वस्त्रगालितदधिघोलयुक्तानि वटकानि घोलवटकानि १, घोलं वस्त्रगलितं दधि २, करमथितखण्डयुतं दधि शिखरिणि ३, करम्भो दधियुक्तकूरनिष्पन्नः प्रसिद्धः ४, करमथितं दधि लवणकणयुतं च राजिकाखाटमित्यर्थः तच्च साङ्गरिकादिकेऽपतितेऽपि विकृतिगतं भवति, तस्मिन् पतिते पुनर्भवत्येव, एतानि पञ्च दधिनिर्विकृतानि ।
“पक्कघयं १ घयकिट्टी २, पक्कोसहि उवरि तरिय सप्पि च ३ ।
निब्भंजण ४ विस्संदण५ गाइं घयविगइगयाई" ॥१॥ [ प्र.सा./ २३० ]
पक्वघृतम्, आमलकादिसम्बन्धि १, घृतकिट्टकं प्रसिद्धम् २, घृतपक्वौषधितरिका ३, पक्वान्नोत्तीर्णं दग्धघृतं निर्भञ्जनम् ४, दधितरिकाकणिक्कानिष्पन्नद्रव्यविशेषो विस्स(स्य)न्दनं ५ चेति पञ्च घृतनिर्विकृतिकानि बृहत्कल्प - पञ्चवस्तुवृत्त्योस्तु विस्यन्दनं नामार्धनिर्दग्धघृतमध्यक्षिप्ततन्दुलनिष्पन्नमित्युक्तम् ।
" तिल्लमल्ली १ तिलकुट्टी २, दद्धतिल्लं ३ तहोसहुव्वरियं ४ । लक्खाइदव्वपक्कं, तिल्लं ५ तिल्लंमि पंचेव" ॥१॥ [ प्र.सा./ २३१]
१. P. सं । बहलि (लिहि) कामाहुः - मु० C. बलिहि - P. मूल ॥ २. घयविगविगइगयाई - प्र. सा. मु. ॥
D:\new/d-2.pm5\3rd proof