SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ ३२६] [धर्मसंग्रहः-द्वितीयोऽधिकारः तत्र प्रत्याख्यानोच्चारस्थानानि पञ्च -आद्यस्थाने नमस्कारसहितादिकालप्रत्याख्यानानि ५, सङ्केताख्यानि ८ च प्रायश्चतुर्विधाहाराणि १। द्वितीयस्थाने विकृतिनिर्विकृत्याचामाम्लोच्चारः, विकृतिप्रत्याख्यानं चास्वीकृतविकृतिनैयत्यानामपि प्रायेणाभक्ष्यविकृतिचतुष्कत्यागात् सर्वेषां स्यात् २। तृतीये एकव्यासनैकस्थाननियमो द्वित्रिचतुर्विधाहार: ३। चतुर्थस्थाने पाणस्सेत्यादि ४। पञ्चमस्थाने देशावकाशिकव्रतं प्राग्गृहीतसचित्तादिचतुर्दशनियमसंक्षेपरूपमुच्चार्यम् ५। एवमुपवासे चत्वारि प्रथमेऽभक्तार्थकरणम् १, द्वितीये पानाहारप्रत्याख्यानम् २, तृतीये 'पाणस्से'त्यादि ३, चतुर्थे देशावकाशिकमिति ४। उक्तं च - "पढमे ठाणे तेरस, बीए तिन्नि उ तिगा य तइअंमि । पाणस्स चउत्थंमि, देसवगासाइ पंचमए" ॥१॥[ प्रत्याख्यानभाष्ये गा./६] अत्र चोपवासा-ऽऽचामाम्ल-निर्विकृत्यादीनि पौरुष्यादीनि च प्रायस्त्रिचतुर्विधाहाराणि, अपवादात् तु निर्विकृत्यादि पौरुष्यादि च द्विविधाहारमपि। नमस्कारसहितं तु चतुर्विधाहारमेव स्यादिति संप्रदायः । यत उक्तं - "चउहाहारं तु नमो, रत्तिं पि मुणीण सेस दुतिचउहा"।[ प्रत्या.भा.गा./१२पू.] तथा- "साहूणं रयणीए, नवकारसहिअंचउव्विहाहारं। भवचरिमं उववासो, अंबिल तिहचउव्विहाहारं ॥१॥[ ] सेसा पच्चक्खाणा, दुह तिह चउहा वि डंति आहारे । इअ पच्चक्खाणेसुं , आहारविगप्पणा नेया ॥२॥[ ] यतिदिनचर्यायां तु संकेतप्रत्याख्यानमपि चतुर्विधाहारं प्रोक्तम् । तथा च तद्वचः"संकेअपच्चक्खाणं, साहणं रयणिभत्तवेरमणं। तह य नवकारसहिअं, निअमेण चउव्विहाहारं" ॥१॥ [ देव.यति.दि.गा./५० ] इति । ___ निर्विकृतिकाचामाम्लादौ कल्प्याकल्प्यविभागश्च स्वस्वसामाचारीतो ज्ञेयः । प्रत्याख्यानभेदतद्भङ्गादयस्तु व्याख्यायन्त एवेत्यलं प्रसङ्गेन । प्रकृतमनुसरामः । द्वारम् २। प्रत्याख्यानं चापवादरूपाकारसहितं कर्त्तव्यमन्यथा तु भङ्गः स्यात् , स च दोषाय । यदाह - "वयभङ्गे गुरु दोसो, थेवस्स वि पालणा गुणकरी उ। गुरुलाघवं च णेयं, धम्मंमि अओ अआगारा" ॥१॥[पञ्चा.५।१२, पञ्च.५१२, प्रव.२१६] १. L.P.C. | हि-मु० ॥ २. L.P.C. । पौरुष्यादीनि-मु० नास्ति ॥ ३. तुला-योगशास्त्रवृत्तिः प० ७०९ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy