SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ३२४] [धर्मसंग्रहः-द्वितीयोऽधिकार: सर्वोत्तरगुणप्रत्याख्यानं यथायोग्यमनागतादि दशधा । यथा - "अणागयमइक्वंतं, कोडिसहिअंनिअंटिअंचेव । सागारमणागारं, परिमाणकडं निरवसेसं ॥१॥ आ.नि./१५६४] संकेअंचेव अद्धाए, पच्चक्खाणं तु दसविहं होइ। सयमेवणुपालणया, दाणुवएसे जह समाही" ॥२॥ [ आ.नि./१५६५] तत्र पर्युषणादौ ग्लानवैयावृत्त्यादिकारणसद्भावे तदर्वागपि यदष्टमादि क्रियते तदनागतम् १। एवमतिक्रान्ते पर्वणि यत् क्रियते तदतिक्रान्तम् २। एकस्य निष्ठाकालेऽन्यस्य च ग्रहणकाले प्रत्याख्यानस्याद्यन्तकोटिद्वयमीलनात् कोटिसहितम् , षष्ठा-ष्टमा-ऽऽचामाम्ल-निर्विकृतिकै कासनादिषु* सर्वेषु सदृशेषु चतुर्थादिषु च विसदृशेष्वपि* भाव्यम् ३। अमुष्मिन् मासे दिवसे वा यदष्टमादि विधेयं हृष्टेन ग्लानेन वा तन्नियन्त्रितम् , एतच्चतुर्दशपूर्विषु जिनकल्पेन सह व्यवच्छिन्नम् ४। सहाकारैर्महत्तराकाराद्यैर्यत् वर्त्तते तत् साकारम् ५। निर्गतं महत्तराद्याकारान्निराकारं, निराकारेप्यनाभोगसहसाकाररूपाकारद्वयस्यावश्यम्भावान्महत्तराकाराद्याकारवर्जनाश्रयणम् ६। दत्तिकवलादीयत्तया परिमाणकृतम् ७। सर्वाशनपानत्यागान्निरवशेषम् ८। अङ्गष्ठमुष्टिग्रन्थ्यादिचिह्नोपलक्षितं सङ्केतम् , तच्च श्रावकः पौरुष्यादिप्रत्याख्यानं कृत्वा क्षेत्रादौ गतो गृहे वा तिष्ठन् ‘भोजनप्राप्तेः प्राक् प्रत्याख्यानरहितो मा भूवम्' इत्यङ्गुष्ठादिकं सङ्केतं करोति, ‘यावदङ्गुष्ठं मुष्टि ग्रन्थि (वा) न मुञ्चामि, गृहं वा न प्रविशामि, स्वेदबिन्दवो यावन्न शुष्यन्ति, एतावन्तो वा उच्छासा यावन्न भवन्ति, १. तुला-प्रवचनसारोद्धारः गा० १८७, २०६ ॥ २. °णय-C. | "णियं-इति आवश्यकनिर्युक्तौ ॥ ३. * * चिह्नद्वयमध्यवर्ती पाठः-मु० मध्ये कोष्ठके [ ] C. प्रतौ पार्श्वभागे वर्तते ।। ४. महत्तराद्याकार० मु० ॥ ५. तुला-योगशास्त्रवृत्तिः प० ७०७, प्रवचनसारोद्धारवृत्तिः भा० १ प० १२० ॥ ६. ग्रन्थि न-P.C. || ग्रन्थि वा न-इति योगशास्त्र-प्रवचनसारोद्धारवृत्त्योः ।। ७. न-नास्ति प्रवचनसारोद्धारवृत्तौ प० १२१ ॥ ८. वो वा यावन्न-इति योगशास्त्रवृत्तौ ॥ D:\new/d-2.pm5\3rd proof
SR No.009691
Book TitleDharma Sangraha Part 1
Original Sutra AuthorN/A
AuthorChandanbalashreeji
PublisherBhadrankar Prakashan
Publication Year2011
Total Pages500
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy