________________
२४
સૂરિજી મહારાજસાહેબ થયા. તેઓની પાટે એક આચાર્ય પૂ.આચાર્યશ્રીવિજયદેવસૂરિજીમહારાજસાહેબ થયા અને બીજા આચાર્ય પૂ. આચાર્યશ્રીવિજયતિલકસૂરિજી મહારાજસાહેબ થયા. આ આચાર્ય શ્રીવિજયતિલકસૂરિજી મહારાજસાહેબની પાટે પૂ. આચાર્યશ્રી વિજયઆનંદસૂરીજીમહારાજસાહેબ થયા અને તેઓના એક શિષ્ય પંડિત શ્રી શાંતિવિજયજીગણિવર થયા. તેમના શિષ્ય તે પ્રસ્તુત મૂલ ગ્રંથના કર્તા મહામહોપાધ્યાય શ્રીમાનવિજયજીગણિવર થયા. રચના સમય
પ્રશસ્તિના શ્લોક-૧૩માં આ ગ્રંથ તેઓશ્રીએ વિ.સં. ૧૭૩૧ના વૈશાખ સુદ-૩અક્ષયતૃતીયાના દિને રચ્યો છે એમ સ્પષ્ટ જણાવેલું છે. આ ઉપરથી તેઓશ્રીના સમયનું
3. श्रीमद्वीरजिनेन्द्रपट्टपदवीसीमन्तिनीमण्डनं,
प्रख्यावानजनिष्ट हीरविजयः सूरिः सतामग्रणीः । येनाकब्बरराट् प्रबोध्य विहितो दुष्कर्मकर्ताऽप्यहो; धर्मोक्त्या त्रिदिवस्य केशिगणिनेवार्हः प्रदेशी नृपः ॥१॥ अमलमलमकार्षीत् सद्गुरोस्तस्य पढें, विजयिविजयसेनः सूरिरुग्रप्रतापः । महति सदसि शाहेर्वादिनो निष्प्रतापान् , रविरिव निजगोभिस्तारकान् यश्चकार ।।२।। विजयतिलकसूरिभूरिसूरिप्रकृष्टो, दिनमणिरुदयाद्रौ तस्य पट्टे बभूव । कुमततिमिरमुग्रं प्रास्य शुद्धोपदेशप्रसृमरकिरणैर्यो बूबुधद् भव्यपद्मान् ।।३।। तदीये पट्टेऽभूद् विजयिविजयानन्दसुगुरुर्यशस्वी तेजस्वी मधुरवचन: सौम्यवदनः । कषायैनिर्मुक्तः प्रशमगुणयुक्तः सुविहितस्तपागच्छाधीशः सकलवसुधाधीशमहितः ॥४|| जयति विजयराजः सूरिरेतस्य पट्टे, सकलगुणगरिष्ठः शिष्टलोकैः प्रशस्यः । प्रथितपृथुजयश्रीरुग्रपुण्यप्रभावः, कलितसकलशास्त्रः प्रास्तमिथ्यात्वजालः ।।५।। तदनुपट्टपतिविहितोऽधुना विजयराजतपागणभूभुजा । विजयमान इति प्रथिताह्वयो विजयतेऽतुलभाग्यनिधिः सुधीः ॥६॥ इतश्च विजयानन्दसूरीणां, विनेया विनयान्विताः । श्रीशान्तिविजयाह्वानाः, शोभन्ते पण्डितोत्तमाः ॥७।। आजन्मादपि शीलसत्यमृदुताक्षान्न्त्यार्जवाद्या गुणा, भूयांसो गुरुभक्तता च विपुला येषु प्रकृष्टा भृशम् । प्रोत्साहाय गुणार्थिनां स्वगुरुभिर्व्यक्तीकृता भूतले; सर्वत्राखिलगच्छकार्यविनियोगेन प्रसन्नात्मभिः ।।८।। तेषां विनेय उदितादरतो विववे, ग्रन्थं च मानविजयाभिधवाचकोऽमुम् । क्षुण्णं यदत्र मतिमन्दतया भवेत् तन्मेधाविभिर्मयि कृपां प्रणिधाय शोध्यम् ।।९।। वर्षे पृथ्वीगुणमुनिचन्द्र १७३१ प्रमिते च माधवे मासे । शुद्धतृतीयादिवसे यत्नः सफलोऽयमजनिष्ट ॥१३।।
D1-t.pm5 3rd proof